This page has not been fully proofread.

88
 
श्रीमद्धयवदनशत कम्
 
अन्यधा अज्ञानमेवास्तीति केन ज्ञातं ? स हि ज्ञाता अज्ञानातिरेकेण तद १
प्यस्त्येवेति त्वया प्यङ्गीकार्य मिति चिदानन्दरूपात्मानुभव सुप्रसिद्धः h
त तस्मात्, अह मात्मैव भवामि; अवस्थालयसाक्षित्वा दिति भावः ।
अत्र दृष्टान्त माह--त्वं ब्रह्मैवेति । त्वं यथा ब्रह्म भवसि न हि त्वं देहे
न्द्रियाद्यन्यतमः तेषां जडत्वात्, नापीश्वरः योगनिद्रादशाया मीश्वर 'स्यास
त्रत् । यद्व। इबेति वाक्यालङ्कारे आत्माऽहं ब्रह्म त्वं भवांमी त्यन्वयः ।
आत्मनो ब्रह्मत्वे हेतुः परिपूर्णा: अखिला: गुणा: अपहृतपाप्मत्वादयो
यस्मिन् यस्य वा सः तथोक्तः । ततः ममैव आत्मत्वा दात्मन एव ब्रह्मत्वा
दित्यर्थ: ।
:। इन्दुस्थित हयवदनोपाधिकं तेजः ज्ञानस्वरूपं मां आत्मानमेव अह
मये अनुभवामि । आत्मानन्द मनुभवा मीत्यर्थः । एतेन आत्मज्ञानिन
स्तव कथं हयवदनसेवेति शङ्का परास्ता ॥ नाहं हयवदन मये किन्तु तदन्त
र्यामिण मात्मना मेवेत्युक्तत्वात् । न च स्वदेहोपाधिक एव आत्मा प्राप्यतां
किमिति हयवदनदेहोषाधिक इति विशेषाग्रह इति वाच्यम् -- तदुपाघे
इशुद्धसत्त्वात्मकत्वेन तत्रान्तर्यामिस्फुरणं सुखेन भवति, अस्तिचापरो गूढो
हेतुः । सरूपध्यानेन अशुभे हते नीरूपात्मानुभव स्सुशक इति हयवदनो
पाधिध्यानेन मम सर्वाशुभ मात्मावलोकनविरोधि नइयता मिति । तदुपाश्रि
कात्मध्यान मिति बोध्यम् । अतएव कविना प्रथमतः हयवदनरूपं ध्यातं;
पश्चात्तु तत्तस्वं चित्त्यते-- इति सर्व मनवद्यम् ॥
 
28/04/12
 
अहं सर्व लदं मयि तु पर मज्ञानलसितं
न लिप्तोऽने नाहं रख मिव जलदेन ध्रुव सिदम्
 
bvInckumar@gmail.com.
 
Page 98 of 123