This page has not been fully proofread.

87
 
श्रीमद्धयवदनशतकम
 
1
 
मन्तःकरणं [मनः] एव जीव इति सिद्धम् । अचाञ्चल्ये तु अन्तःकरण
स्यैवानपर्लभ इति बोध्यम् उक्तबेदं पञ्चदश्याम् "अहंवृत्ति रिदंवृत्ति
रित्त्यन्तःकरणं द्विवेत्यादि । अहंवृत्ति जीवइति सर्वानुभवसिद्धं हि माया
तु समाधिकाले केवला शक्तिरूपेण आत्मन्येव लीना वर्तते इति बोध्यम् ।
स्वकार्यस्य जगतोऽप्रतीतेः तस्या लीनत्वोक्तिः मायाया लीनत्वे ईश्वरोऽपि
जीवव दुपसंहृत एवेति न मायान्यतिरेकेण ईश्वरसिद्धि रिति ॥
 
न देहोऽहं स्वप्ने मम तदतिरेकित्वकलनात्
न जीवोऽहं स्वापे परमसुखरूपत्वकलनातू
त दात्माऽहं ब्रह्म त्व मिव परिपूर्णाखिलगुण
स्ततोऽहं तेजो मां हयवदन मिन्दुस्थित मये ॥ ८७
 
अहं देहो न न भवामि स्वप्ने मम जीवस्य तदतिरेकित्वकलनात्
देह
भिन्नत्वानुभवात् । जाग्रति स्थूलोऽह मित्यादिव्यवहारानुगुण्येन देह
एव आत्मत्वेन ज्ञायते, तद्ज्ञानं भ्रान्ति रेव । अत्र तल्पे शयानं देह
मुत्सृज्य देहतादात्म्यं विहयेत्यर्थः; स्वाप्निक काश्यादिषु व्यवहरतो देहभिन्न
स्य जीवस्य अनुभवादिति भावः । तर्हि जीव स्त्व मित्यत आह - नाहं
जीवः । स्वापे सुषुप्तौ मम परमसुखरूपत्वकलनात् ।
मम सुषुप्तौ अनुभूयमानत्वा दिति भावः । न चायं हेतु रसिद्धः । सुषुप्तौ
अज्ञानातिरेकस्य यस्य कस्या प्यभावा दिति वाच्यम्-- उत्थितस्मृत्या 'सुख
महु मखाप्स' मित्याकारिक या आत्मन स्सुखरूपत्वस्य अनुमानात्
 
परमानन्दस्वरूपस्य
 
28/04/12
 
bvInckumar@gmail.com.
 
Page 97 of 123