This page has not been fully proofread.

८२
 
86
 
28/04/12
 
श्रीमद्धयवदनशतकम्
 
न जीवो नामान्यो
 
ऽस्तयनुभवमयान्तःकरणतो
 
न मायात श्चेशो न हि चि दपरूपा प्रतिफलेत्
स्वरूपस्थे चित्त न खलु परम स्याप्यनुमिति
रथो जीवाध्यक्ष हयवदन मिन्दुस्थित मये ॥ ८६
 
हे अनुभवमय ज्ञानस्वरूप ! परमात्मन् ! अन्तःकरणा दन्यो
भिन्नो जीवो नाम न कश्चन पदार्थोऽस्ति; अन्तःकरणमेंब जीव इत्युच्यते
इति भावः । तथा मायातोऽन्यो ईशो नाम न कश्चनास्ति; मायै वेश्वर
इति भावः । ननु कथ मिदम् अन्तःकरण मायाफलितयो श्चितोरेव जीवे
श्वरव्यवहारा दित्यत आहा अपरूपचिदात्मा ब्रह्म बाहि प्रतिफलेत्
प्रतिबिंबेत् निरूप्यत्य कथं वा प्रतिबिम्ब इति भावः । न चैवं मायान्तःकर
णयो र्जडत्वा त्कथं जीवेवरत्व मिति वाच्यं । चुम्बुकलोह दृष्टान्तात् चित्सं
बन्धादेव तयो स्तथात्त्वात् । न चैव वेदान्तशास्त्र विरोधः । प्रतिबिंम्बमते अव
छिन्नमते च चित्सम्बन्धमात्रस्यैव विवक्षितत्वात् । अन्यधा कथं निर्मलस्य
चैतन्यस्य अवच्छिन्नत्व मपि सम्भवेत्; वैशिष्टयस्य मालिन्यावहत्वात् । उक्त
मर्थ मनुभवेन द्रढयति - चित्ते अन्तःकरणे, स्वरूपस्थे सति अचञ्चले
सतीति यावत् ;
समाधाविति भावः । परमस्य ईश्वरस्य, अनुमिति रनुमानं,
नास्ति खलु । व्यवहारदशायां हि नगद्वैचित्र्येण ईश्वरोऽ नमीयते ।
परमार्थदशायां जगत एवाभावेन कथ मीश्वराजमिति रिति भावः । ईश्वरो
नास्त्येवेति मुख्यार्थः । अथो एवं जीवाध्यक्षं जीवप्रात्यक्षमपि न खलु । मुखित्त्व
दुःखित्वादिगुणको जीवो वा नानुभूयते, तदेति भावः । तस्मत् चञ्चल
 
7
 
bvInckumar@gmail.com.
 
Page 96 of 123