This page has not been fully proofread.

83
 
श्रीमद्भयवदनशतकम्
 
द्वहुधा भवसि; स एका भवति, द्विधा भवति, त्रिधा बहु भवति, बहुधा
भवतीति श्रुतेः । यथा योगबला तव रामकृष्णादिबहुमूर्तिधारित्वं तथा
सर्वं मूर्तिधारित्वमप्यस्तु; त्वच्छक्ते रसङ्कोचा दिति भावः । ननु अह मीश्वरः,
ते जीवा इति कथं मद्योग विभवत्वं तेषा मित्यत आह एत च्चिदचिदात्मकं
जग त्वत्तः भिन्नं किम् अभिन्न सेवेत्यर्थः । कार्यस्य कारणाभिन्नत्वाचि
त्यात् । अत्र हेतु माह । य द्यस्मा दिद मखिलं जग ह्मैव भवति सर्व
खल्वदं ब्रह्मेति श्रुतेः । अत्रेदं तत्त्वं । ब्रह्मैव मायया ईश्वररूपेण जीव
रूपेण जगद्रूपेण च भातीति हेतो: सर्व मिद मीइवरात्मक मेवेति । ननु जगतो
ब्रह्मात्मकत्त्र मस्तु नाम; कथ मीइवरात्मकत्वं, जगदीश्वरयो मिथ्यात्त्वात् ?
इति चे न्मैवम् । मिथ्यात्त्वेपि कार्यकारणभावसद्भावात् न हि शुद्धा ब्रह्मण
स्सकाशा जगदुत्पतिः । किन्तु मायाशबळादेव । ब्रह्मणो मायाशत्रळत्वं
नाम ईश्वरत्वमेवेति हेतोः जगदुत्पति प्रति ईश्वरस्य निमितोपादानत्वेन
ईश्वरस्य जगत्कारणत्वात् ईश्वरकार्यत्वेन ईश्वरात्मक मेव जग दिति ताव
दविवादम् । अतः सर्वस्य ईश्वरात्मकत्व! दित्यर्थः । ते तव, इदं जीवनटनं
मायायाः कृतं कार्यं खलु ! यथेश्वरत्वं तथां जीवत्वमपि तव माययैव;
न वस्तुत इति भावः । एतेन व्यवहारदशायामपि जीवेश्वरयो थेंदः पराकृतः
एकस्यैव द्वेधा व्यवहारात् । न च पूर्वोत्तरविरोधः; पूर्वत्र जीवेश्वर मैदस्य
व्यवस्थापितत्वा दिति वाच्यम् । जीवत्वेश्वरत्त्वयोरेष भेदः, न तु तदुभ
या श्रयस्य मायिन इति सिद्धान्तात् । न चेत् ईश्वर एव जीवन नटतीलि
वयनं नाङ्गीकरोषि चेत जीवः असिद्धएव। जीव इति ईश्वरा द्वन्न:
कश्मन पदार्थो दुर्निरूप एवेति भावः । तथा हिसृष्टः प्रागी इवरोऽस्ति
 

 
28/04/12
 
bvInckumar@gmail.com.
 
Page 93 of 123