This page has not been fully proofread.

bh
 
श्रीमद्धयवदनशतकम्
 
सर्वत्रापि ब्रह्मादिस्तम्बपर्यन्तेषु अहंसुखी, अहं दुःखीति व्यावहारिको जीव स्सर्बप
त्यक्षः समाध्यादिषु तु केवल आत्मेति न वापीश्वरप्रत्यक्ष मिति । न च ध्याना
च्छङ्खचक्रा दिमान् प्रतीयते स एवेश्वर इति वाच्यम् । शङ्खादिमतो देह
त्वेन जडत्त्वा न तस्येश्वरत्वं । तदान्तरस्तु नैव प्रत्यक्षः । अहो सिद्धदेहेऽपि
य आन्तर स्तत्प्रत्यक्षध्वे सन्दिग्धे सति कल्पितदेहान्तरप्रत्यक्षं नः भवतीति
वचनं त्वाश्चर्यकर मित्त्यल मचालसुलभैः प्रसङ्गैः ॥
 
28/04/12
 
त्व मीश स्स्वायत्तप्रकृतिगुणतत्कार्य निवह
स्सदाऽस्पृष्ठाज्ञान स्सकलगुणमूर्ति स्सुखमयः
वयं जीवा स्सवें प्रकृतिपरतन्त्राशुभधिय
स्त्वयैते संरक्ष्या हयवदन मिन्दुस्थित मये ॥ ८२
 
अधुना जीवेश्वरयो सिद्धं वैलक्षण्यं दर्शयन् स्वस्य भगवद्धयवदन
प्रार्थनानर्थक्यं परिहरति कविः । अन्यथा स्वस्यैवेश्वरत्वे प्रार्थनाया आनर्थ
क्यात् । त्वमिति--त्त्व मीशः ईश्वरो भवसि, कुतः ? स्वायतीकृतः, प्रकृति
र्माया तत्कार्या व्यन्तःकरणादीनि, तेषां निवहो येन सः, स्वाधीनमायः ।
अतएव स्वाधीनलोकश्चेति भावः । तदपि स्वाधीनमायत्वं कुतः ? सदाऽस्पृ
ट। ज्ञान: अज्ञान मनात्म यात्मबुद्धि । सदापि त्वया अस्पृष्ट मित्यर्थः
आत्मानन्दानुभक्श लिनो वशे सबै तिष्ठति हि । अतएव सकलगुणमूरिः ।
अज्ञानाभावादेव तव सर्वज्ञत्वादिको गुणगण इति भावः । तस्य स्वरूप
माह सुखमय इति विज्ञानमयो जीव: आनन्दमय ईश्वर इति हि वेदान्तिनो
बदन्ति । यद्य ध्यानन्दमयः कोशत्वेन अपरमार्थः तथापि ईश्वरोऽप्यपरमार्थ
 
bvinckumar@gmail.com.
 
Page 89 of 123