This page has not been fully proofread.

७४
 
धमवद नशत
 
प्रयुक्तस्य भेदस्य व्यवस्थापितत्त्वात् । मायान्तःकरणयोस्तु भेदोऽस्त्येव ।
माया एका, अन्त:करणन्तु परिच्छिन्नम् । माया शुद्धा, अन्तःकरणन्त
मलिनम् । अत एव मायाध्यस्तस्य सर्वात्मत्वसर्वज्ञत्वादिकम् ; अन्तःकरणा
ऽयन्तस्य तद्वैपरीत्यञ्च । तस्मात् जीवेश्वरयोः वस्तुतः चैतन्यांशे अभेदेपि
व्यवहारदशायां भेद सिद्ध एव । नन्वेचं व्यवहारकाले यो जीव: य
श्वेश्वरः ता वुभावपि अन्तर्यामी न भवत एव । तस्य पारमार्थिकत्वात् । यदि
तु पूर्वोत्तरीला ईश्वरस्य वस्तुतो ब्रह्मत्वे नात्मत्व मिति तर्हि जीवोऽप्यात्मैव
वस्तुत इति कथ मीश्वरस्यै वान्तर्यामित्वं 'भवा नन्तर्या' मीति भक्तोक्तम् ?
इति चे त्सत्यम् ; जीवोप्यात्मैव, किन्तु न तस्य खानन्दानुभवः अविवेक
त्वा दिति । गुरूपदेशादिभि र्यस्तु जीवः स्वखरूपं वेत्ति तं पुन रीश्वर मिव
अन्तर्यामिण वयं ब्रूमहे एव । उक्तंहि शङ्कराचार्यैः 'प्रत्यगात्मा शिवोऽह '
मिति । ननु "ईश्वर स्सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति भ्रामयन् सर्वभूतानि
यन्त्रारूढानि मायया" इति गीतारीत्या अन्तर्याम्यपि व्यावहारिक ईश्वर एव
भवितु मर्हति; न तु पारमार्थिक आत्मा; उदासीनस्य आत्मनः परम्रामणा
सम्भवात् इति चे न्मैवम् । 'अयस्कान्ता त्त्वत्तो जगदिदमयोपद्वयवहृतिं ध्रुव
प्राप्नोतीति' मया प्रागेवोक्तम् । जडत्वेन उदासीनस्य अयस्कान्तस्य सन्निधौ
यथा सूची भ्रमति तद्वत् ज्ञानस्वरूपत्वेन उदासीनस्य आत्मन स्सन्निधावपि
हृदयादिकं जग मतीति विवृतश्च तत्रै बाय मभिप्रायः । अतएव गीताया
मपि भ्रामयन्निति प्रयुक्तं । चुम्बुकलोहव दिति दृष्टान्तव्यन्जनाय । किञ्च
हृद्देशेऽर्जुन तिष्ठतीति ईश्वरस्य हृद्देशस्थिति रुक्ता; व्यावहारिकस्यतु सैय
न घटते । न हि जीषाना मन्त रीश्वर उपलभ्यते । यदुपलभ्यते तदात्मैव
 
8/
 
28/04/12
 
bvInckumar@gmail.com.
 
Page 88 of 123