This page has not been fully proofread.

१०]
 
77
 
28/04/12
 
श्रीमद्धयवदनशत कम्
 
तदात्मातत्कार्यप्रतिफलितचिजीव इति च
त्वदंश स्त्वां भूमन् ! हयवदन मिन्दुस्थित मये ॥ ७१
 
हे भूमन् ! त्वं बृहत् बह्मेति सतो ब्रह्मण इशक्त्यां मायाया प्रति
फलितो यश्चिन्स तथोक्त ईश्वर इति च । तु रत्र चार्थ: । अवस्थाभेदेन
प्रथमं श्रुतिगणै रुपगीतो हि त त्ततः पश्चात्, त्व मात्मेति त्वदंशः तस्यात्मन
इशक्त्याः कार्ये अन्तःकरणे प्रतिफलितचिज्जीव इति च उपगीतः ।
अयं भाव: - जगत उप्तत्ते : प्राकू महाप्रळये परमार्थावस्थाया मेक मे
वाद्वितीयं ब्रह्म ऽस्ति । तत्प्रळयचरमकाले व्यवहारावस्थायां तु मायावच्छिन्न
चैतन्य मीश्वरोऽस्ति । मायातादात्म्याध्या सवशा देव तस्येश्वरस्य अमोघ
सकरूपत्वादिकम् । पश्चात् सृष्टौ तदेव ब्रह्म अन्त:करणोपाधिसम्बन्धा
दात्मे त्युच्यते । अन्तःकरणतादात्म्याध्यासवांस्तु जीव इति एतावता
निरुपाधिकं मायोपहितं वा चैतन्य मेकं ब्रह्मभूतम् । मायाभ्यस्त मपर मीश्वर
भृतम् । अन्तःकरणोपहित मात्मभूतं तृतीयम् । अन्तःकरणाध्यस्त जीवभूतं
चतुर्थ मिति निष्कृष्टम् । एवंसति घटाकाशमहाकाशयो रिव आत्मब्राह्मणोः
औपाधिकः अन्तःकरणरूपोपाधिकृतः एव भेदः । न तु तात्विक इतिहेतोः
आत्मा ब्रह्मैवेति सिद्धे अध्यासस्य मिथ्यात्वेन अध्यस्तस्यापि मिथ्यात्वा
दीश्वरो जीवश्च वस्तुतो बह्मैवेति चतुर्णा मेकत्वं फलति । तथा च ईश्वरस्य
आत्मत्वे न कोपि विरोध: । अथ यदुक्त मात्मन ईश्वरत्वं दुर्घट मिति
तदस्माक मिष्टमेव । ईश्वरत्वव ज्जीवत्वमपि तस्य दुर्घट मेवेति हेतो
जीवेश्वर मिथ्यावाद स्थानुकूलत्वात् दुर्घटत्व मेव हि मिथ्यात्व मनिर्वचनीय
त्मलक्षणम् । न चैषं जीवेश्वरयो साइप्रसङ्गः मायान्तःकरणोषाधिय
 
bvinckumar@gmail.com.
 
७३
 
Page 87 of 123