This page has not been fully proofread.

EL
 
श्रीमद्धयवदनशतकम्
 
६९
 
नित्यबुद्धत्वात् किन्तु
 
सर्वजीवाना मेवेति बोध्यम् । अतए बेदञ्च जगत्
मुक्तस्य न प्रतिभाति । तस्य बुद्धत्त्वात् । न चैकमुक्तौ सर्वमुक्तिप्रसङ्गः
सर्वजीवावरक मज्ञानं यं जीव नावृणो त्तस्यैद मुक्तत्त्वात् इति आत्यन्तिकमळ
यात्मको मोक्षो विवृतः ॥
 
यथा माया रज्जौ सृजति तव सर्प नरहरे !
प्रसिद्धं तेनायं व्यवहरति मृढस्तु विबुध:
स्मयं स्तूष्णी मास्ते जगदपि तथा त्व य्यविबुधो
विचष्टे ज्ञो नैव हयवदन मिन्दुस्थित मये ॥ ७८
 
मायया त्वयि कल्पितं जग न्न एव प्रतिभाति न तु ते इत्युक्तं व
तदेव सदृष्टान्तं विवृणोति । यथा तव सम्बन्धिनी माया अज्ञानापर पर्याय!
शक्तिः, रज्जौ सर्प सृजति हेनरहरे ! हरि रश्वःमुखस्य हर्यवतारत्वा दाकण्ठं
नरावतारत्वा नरहरि रित्युक्तम् नराश्वमूर्ते इत्यर्थः । इतीदं प्रसिद्धमेव
रज्जुसपेंभ्रान्ते स्सर्वानुभवविषयत्वा दिति भवाः । अयं मूढः कुदृग्जनः तेन
सर्पेण व्यबहरति तं सर्पं दृष्ट्वा भीतिरोदनताडनादिव्यवहारं नाटयतीत्यर्थः ।
विबुधः रज्जु रियं न सर्प इति याथाश्चज्ञानवांस्तु स्मयम् भ्रान्ता नुद्धिश्य
स्मितं कुर्वन्, तूष्णी मास्ते भीत्यादिव्यग्रह: रामाववा नारत इत्यर्थः । तथा
अविबुधः त्वद्याथार्थ्याज्ञानवान् त्वयि जग द्विचष्टे पश्यति; ज्ञः बुधः नैव
त्वयि जगन्न विचष्टे इत्यर्थः । एतेन रज्जुसपेव जग न्मूढदृग्गोचर एव न
तु प्राज्ञ विषय इति लकिं पुन स्सर्रज्ञस्या विषय इत्यत्वाश्चर्य मित्युक्त
भवति । रज्जुसपैव स्वयि जगमध्यैवेति मुख्यार्थः ॥
 
28/04/12
 
bvinckumar@gmail.com.
 
Page 83 of 123