This page has not been fully proofread.

69
 
श्रीमद्वयवदनम्
 
३५
 
हे भूमन् ! इदं सर्वं जगत् जठरस्यान्तः अन्तर्जंठरं, स्वस्य अन्त
र्जठरं स्वान्तर्जठरं; स्वस्य जठरान्तरे इत्यर्थः । उपसंहृत्य क्षीरोदे क्षीरधौ भुजगे
शेषे, शयानः श्रिया सहचर इश्रीसहचरः, तथापि निजसुख मात्मानुभवसुख
मे वायन् भजन् न तु कामिनीसौख्य मिति भावः । पुनस्सृष्टिकाले नाभी
जलरुहस्य तला मध्या दुत्पादितः विधि ब्रह्मा येन स तथोक्त स्सन् एत
ज्जगत् ब्रह्मद्वारा सृज सीत्यर्थः ॥
 
महाकल्पे सर्व जगदपि सपालं सविधिकं
सशेषं सान्नाथं सतनुगुरुभूतं सदभिभो !
स्वलोके संहृत्य प्रतततम सः पश्यति भवान्
परं पारात्मानं हयवदन मिन्दुस्थित मये ॥
 

 
हे अभिभुः ! अमित स्सर्वतो भवती त्यभिभूः, तत्सम्बुद्धिः । महा
करुचे महाप्रळये, सपालं सलोकपालं, सविधिक सविधातृक, सशेषं साझार्थ,
साम्भोधि, सतनुगुसभूत सूक्ष्मस्थूलभूतसहितं, स द्विद्यमानं सर्वमपि जगत्
स्खलोके ब्रह्मणि संहृत्य विलापयित्वा तदानीं वर्तमानस्य प्रततस्य गम्भीरस्य,
तमसः पारभूत मात्मानं, परं परमात्मान मित्यर्थः । भवान् पश्यति साक्षा
त्करोति । दृशि रत्र ज्ञानार्थ: । तादृशतमम्साक्षी त्वमेवेति भावः । तमसः पार
मित्यनेन तमसोऽवधित्वं भगवतः कथितं । तेन च नर्व निषेधावधिभूतं
बझ हृयग्रीव एवेति व्यज्यते ॥
 
28/04/12
 
bvInckumar@gmail.com.
 
Page 79 of 123