This page has not been fully proofread.

श्रीमद्धयवदनशतक मे
 
हे बिभो ! तब पड़ाम्भोज स्येदं पादाम्भोजं रजः श्रुतिभिरपि मृग्यम् ।
अपि वा किमु तदर्बाचीनै ब्रह्मरुद्रादिमि रित्यर्थः । मृग्य मित्यनेन अद्यापि
मुग्यतेएव; नतु लभ्यते इति व्यज्यते । श्रुतिभिरपीति स्त्रीनिर्देशेन सीमन्त
सिन्दूरार्थ श्रुतयः पादाब्जरजो मृगयन्ती गम्यते । ननु अम्भोजमिव
पद पदाम्भोज मिति उपमितसमासात् पदोपमानस्य अतः पदादधिकस्य
अम्भोजस्य सतः किमिति पदरजो मृग्यते इत्यत आह तव पाद: क्व ?
अम्भोजं क्व ? तत्र हेतुः । यस्य अम्भोजस्य रजस्तु भ्रमरैरपि सुखेन लब्धु
शक्य मिति । ननु तर्हि पदाम्भोज मित्यपशब्द एव औपम्याभावा दित्यत
आह अहो इत्यादि । यस्या अभिरुचिरापाङ्गमथुपाः भवत्वादाम्भोजे सन्ति
सा लक्ष्मी धन्या हयवदनपद मम्भोजं भवितु मर्हति लक्ष्म्यपाङ्गरूपभ्रमरा
श्रयत्वा दित्यनुमानेन पदाम्भोज मिति प्रयोग सुसाध इति भावः । धन्येत्यनेन
अम्भोजरजो ग्रहण चातुर्य यथा मधुपाना मस्ति तथा भगवत्पादरजस्सेवा चातुर्थ
लक्ष्म्या एवेति ध्वन्यते । किञ्च पदस्य अम्भोजत्वेन तद्रजः श्रुतिब्रह्मादिभि
रचतुरै मलभ्यताम् । यः कोपि चतुरः भ्रमरीमूय तद्रजः किमिति नालभस
इति शङ्काया मस्ति धन्या लक्ष्मी रित्युक्त मिति व्यज्यते । एतेन लक्ष्म्यपाङ्ग
रूपभ्रमराणां निरन्तरतत्पादरजस्सम्बन्धात् अन्येषां न तल प्रवेशाबसर
इति च द्योत्यते । अपि च भगवत्पादं यादृक्प्रसिद्धामोदं तादृक्प्रसिद्ध श्रमराः
लक्ष्म्यपाङ्गा एवेति उमयोः पदारविन्द लक्ष्म्यपांङ्गभ्रमरयो सङ्गतिः श्लाघ्येति
व्यज्यते ।, स्वानन्यलक्षति व्यतर सर्वदुम भगत्वपादाब्ज मिति मुख्यार्थः ॥
 

 
Page 72 of 123
 
५८
 
28/04/12
 
bvinckumar@gmail.com.