This page has not been fully proofread.

८)
 
श्रीमद्धयवेदनशतकम्
 
रवीन्दुभ्यां सर्व जग दभिविभो ! पश्यति भवान्
इतीयं सत्या हि स्मृति है रखिललोकः खलु विरा
असृग्रेखा सौरी हिमरुचिमयोऽयं धवळिमा
कळङ्क स्तारा वा हयवदन मिन्दुस्थित मये ॥ ६३
 
हे अभिविभो ! सर्वेश्वर ! भवान् त्वं रवीन्दुभ्यां सर्वं जग पश्यतीतीय
स्मृति स्वत्वा । हिँ यतः भवान् अखिलालोका यस्मिन् स विराट् भवत्ति ।
सर्वलोकात्मकस्य विराजः सूर्यचन्द्रनेत्रत्वं युक्तमेवेत्यर्थः । यावान् पुरुष स्त
दनुगुणे एव तस्य नेले भवत इति न्यायादिति भावः । अथ उभयो नैत्रयो
स्समत्वेन एकस्य सूर्यत्व मपरस्य चन्द्रत्व मित्ययं भेदोऽनुपपन्न इंति पक्षान्तर
मुपन्यस्यति । असृगिति, वेति पक्षान्तरे- सूरस्येयं सौरी । त्वन्नेत्रयो य
असखा सेयं सौरी भबति सूर्याशः । असमरेखा त्वेन वर्तते इत्यर्थः । अयं
धवळिमा हिमरुचिमयः वैलं चन्द्रांश इत्यर्थः । तारा तारका कभी निके
त्यर्थः । कळङ्क: अभेदोपचार: कळङ्कांश इत्यर्थः । अतः एकैकं तय नेत्रं
सूर्यचन्द्रात्मकमेवेति न दोष इति भावः । नेत्रयो रक्तघाटीसद्भावो महा
पुरुषलक्षण मिति सामुद्रिकाः ॥
 
28/04/12
 
रजः पादाम्भोजं श्रुतिभिरपि मृग्यं तव विभो !
क्व पाद: क्वाम्भोजं भ्रमरसुलभं यस्य तु रजः
अहो ! धन्या लक्ष्मी यदभिरुचिरापाजमधुपाः
भवत्पादाम्भोजे हयवदन मिन्दुस्थित मये ॥ ६४
 
bvinckumar@gmail.com.
 
Page 71 of 123