This page has not been fully proofread.

श्रीमद्ध्यवदनशतकम्
 
"
 
बभूवु रुशती ईश्वसतोऽस्य जन्त इति भागवतप्रामाण्यात् । अनेन च रूपकेण
नासाया हिमवत्पूर्वतगह्वरतौल्यं द्योत्यते । तत एव गङ्गाविर्भावात् । वेद
'ययने विधातुः प्रथमत्वात् 'तेने ब्रह्म हृदा य आदिकवये " इति भागव
ताच । विधातु रब्धित्वारोपः श्रुतिगङ्गयोः परमपावनत्वाशे तौल्यं किञ्च
गङ्गाप्रवाहवत् श्रुतिगण स्साडम्बरं हयवदनवक्त्रा न्निर्गच्छते इति गङ्गातौल्यं
श्रुतीनां यज्यते । तीन विकार : श्रुतिमयी सा चासौ सरिन्मौळि श्चेति
विग्रहे स्रियाः पुंव दिति पुंवद्भाव । एवं श्रुतिविकार इत्यर्थस्य श्रुतिरूपेति
यावदथो बोध्यः । यद्वा श्रुतिरै श्रुतिमयी इति खार्थे मयट् । सैव सरिन्मौ
ळिरिति रूपकम् । यदीयेति पदं क्लीबत्वेन विपरिणमते यदीयं मुखं वक्त्र
ममरविद्वेषिणां मधुकैटभाहीनां लयभूः लयस्थानम । हेषावोन्निर्जिताशेष
दैतेयेति हयग्रीवदण्डक मत्र प्रमाणम् । हयवदनवक्त्र निर्गतहेषारवश्रवण
मात्रेणैव मधुकैटभादयः पञ्चत्वं जग्मु रिति हयवदनस्य महान् पराक्रमातिशयो
व्यज्यते। अमरविद्वेषिणां लयो यस्मा तस्य अमरविद्वेषिलयस्य हेषारंव
स्यार्थात् भूः स्थानमित्यपि समासार्थोऽत्र प्रतिभाति । यदीयं कराम्भोजम्
दक्षिणम् शम्भुप्रमुखानां सुराणां रक्षागृहम; तस्याभयदत्वात्
। अहो
इत्याश्चर्थं तत्र हेतुस्तु हयवदननासादिभि रेव वेदादिजन्मादिसम्भवः । इति
उक्तवावयार्थं तया फलितमाह ईश मिति ईश्वर मित्यर्थः । सृष्टिस्थितिलयकर्ता
हीश्वरः स च महेशपदेन पौनरुवत्यम् । हे महाराजेत्ययें तत्सम्बुद्धिपर्यवसा,
नातू,
तेन च महाराजस्येव विग्रहसौन्दर्यादिगुणपरिपुष्टि यज्यते । ईशपदेन
सर्वज्ञत्वादिको ह्यान्तरो गुणः । प्रतीयते ॥
 

 
28/04/12
 
८०
 
bvInckumar@gmail.com.
 
Page 70 of 123