This page has not been fully proofread.

श्रीमद्भयवदनशतकंम
 
नयो र्धावळ्य हेतु: रमासीमन्तच्छायेतिसम्भावित इति हेतू प्रेक्षा; तया च
सीमन्तच्छायायाः चन्द्रकलासाम्यं व्यज्यते । तेन च शिरोजव्यूहस्य तामि
स्रुतौल्य मिति । किञ्च भगवन्नयनोरविन्दयो धवळ्यं प्रति चन्द्रकला नैव
हेतु: चन्द्रारविन्दयो विरोधित्वेन । प्रत्युत अरविन्दमालिन्यं प्रति हेतुत्वात् ।
तस्मात् सीमन्तच्छायायाः गङ्गात्वं व्यज्यते । शिरोजव्यूहस्य च अभ्रसाम्यम् ।
अपि च सीमन्त वीथेः परिमळपरीवाहायमानत्वेन शिरोजव्यूहस्य मेघसान्य
व्यज्यते । मेघाद्धि प्रवाहोदयः । एव मिन्डीवरदळच्छन्नतटाकसाम्यञ्च व्यज्यते।
तटाके नीराधिक्ये सति तटाकमङ्गभीत्या किय नीरं हि बहि रुद्वास्यते
तदेव परवाह इत्युच्यते । अत्र तु शिर एव तटाक:, परिमळ एव जलम,
केशपाशस्तु उत्पलावरणम्, सीमन्तवीथिस्तु परिमळपरीवाह इति विवेकः ।
हयवदनस्य देवत्वेन यद्यपि खेदानुदयः तथापि मुक्ता एव खेदत्वेन तर्कित
इति बोध्यम् । खेदोपन्यासेन निरन्तरदेवता वृन्दसमावेशो हयवदनस्य व्यज्यते
लक्ष्म्यां करकमलस्थितकमलदळे हेयवदनं वीजयःत्यां सत्याम तदुत्पन्नमरुत्पो
तेन हृयवदनमुक्ताहारगतमुक्ता इतस्तत चलन्तीति परमार्थः ॥
 
59
 
विधानध्यायायिश्रुतिमयसरिन्मौळिजनिभृ
यदीया श्रीनासा मुख ममरविद्वेषिलयभूः
कराम्भोजं शम्भुप्रमुखसुररक्षागृह महो
महेश ! त्वा मीशं हयवदुन मिन्दुस्थित मये ॥ ६२
 
हे महेश! यदीया श्रीमती नासा विधाता रमे वाब्धि मायायिन्या:
श्रुतिमयसरिन्मौळेः वेदरूपगङ्गायाः जनिभू रुत्पत्तिस्थलं भवतीति शेषः । वाचो
 
28/04/12
 
bvinckumar@gmail.com.
 
Page 69 of 123