This page has not been fully proofread.

25
 
५२
 
श्रीमद्धयवदनशतकम्
 
मित्यनेन तु करुणा हि मन स्युत्पद्य तत्रामात्वा दृग्वीची मिषेण वहि रुद्र
तेति व्यज्यते इति ॥
 
रमावक्ता पुष्पार्पितगळगतेन्द्रीवरमय
सगुल्लासस्मेरद्यविहृतचकोरी परिकरम्
रमालावण्याब्युझव दमृतकुम्भप्रतिकृति
प्ररज्यद्वक्षस्कं हयवदन मिन्दुस्थित सये ॥
 
पूर्वश्लोके कटाक्षध्यान विधा याबुना स्मेरध्यानं विधते कविः ।
रमावकारूपेण अप्पुष्पेण चन्द्रेण अर्पित। या गळगता इन्दीवरमयशकु
तस्या उल्लास: उड़ासकः, उल्लासहेतु रिलि वा स्मेरः, तस्य छुः कान्तिः,
तल विहृतः चकोरीपरिकरः यस्य तम् । चकोरीपरिकरः स्नेरघुतौ विहरति
चन्द्रिकाम्रान्त्यां इति भ्रान्तिमदलङ्कारो व्यज्यते । वस्तुतस्तु शच्यादीनां
देवकान्तानां नयनरूपिण्य श्चकोर्यः भगवत्स्मेरद्युतौ विहरन्ति स्मेरं रागेण
पश्यन्तीति भावः । अयं च स्मेर:-

 
स्वभक्तलक्ष्मी मुख चन्द्र समर्पितोत्पल विकासाय भगवता मुखे गृहीत
इति । पलं पुष्पं फलं तोयं यो मे मक्त्या प्रयच्छत्युक्तरीत्या भगवतः
भक्तप्रसादौन्मुख्यं व्यज्यते । चन्द्रस्य इन्दीवरप्रियत्वात् चन्द्रेण इन्दीवरस
गर्पितेति चोध्यम् । वस्तुतस्तु लक्ष्मीनयनापाकैत वेडीवरमाला भगवद्गळे
लग्ना । भगवांस्तु सर्वजगन्मोहिन्या अपि मोहर्न मद्वपुर्लक्ष्म्या इति स्मितं
कुरुते इति ज्ञेयम् । भगवत्कण्ठगतेयं न हीन्दीवरस्रक किन्तु लक्ष्मीनयनमाला
 
28/04/12
 
bvInckumar@gmail.com.
 
Page 66 of 123