This page has not been fully proofread.

55
 
28/04/12
 
श्रीमद्धयवदनशतकम्
 
रमावक्त्रानुनामृतरुचिशुचिस्मेरसुषमा
गाभिस्नाना दिव शिशिरसम्मोदसुषमाम्
वमन्तं हङमाला ममलकरुणावी चिकपटां
सिताम्भोजाक्षाभ्यां हयवदन मिन्दुस्थित मये ॥ ५८
 
रमाया वक्त्रमेव अजूनामृतरुचि सम्पूर्णचन्द्रः तस्य शुचिस्मेर एव
सुषम अन्द्रिका (चन्द्र सुषमाया चन्दिकात्वात् ) सैव घुगङ्गा मन्दाकिनी
घुगङ्गे युपमा वा तस्या मभित रस्नाना दुभ्यस्नाना द्धेतो रिव; शिशिर
सम्मोदसुषमाम् सम्मोदहेतौ सम्मोदत्व मौनचारिकम्; तेन च हेत्वलङ्कारो
व्यज्यते । शिशिरा सम्मोदसुषमा यस्यास्ताम् । अमलकरुणावीचय इति
कपटं यस्यास्तां । दृङ्मालां सिताम्भोजतुल्याभ्या मक्षिभ्यां वमन्तम् ; अत्रे
नेयं हङमाला किन्तु करुणावीचय एवेति हमालायां दृङमालात्वं प्रथम
महत्य पश्चात्करुणावी चिकपटेति करुणावी चिश्व अपहुत्य हुङ्झमालात्वं
स्थापित मिति अपह्नवस्या व्यपहवः ? करुणे त्याजन्तस्वारस्या द्वीचिसान्निध्याच्च
नदी व्यज्यते । तेन नदीवीचिसादृश्यं दृङमालाया अंभगरत्वादिरूपं फलति ।
करुणया यद्यपि ह्ङ्माला शिशिरा तथापि तस्या शैशिर्ये हेत्वन्तरं सम्भा
वितं । घुगङ्गाभिस्नाना दिवेति अनूनामृतरुचि रित्यनेन अमृतरुचे ये दस्यू
नत्वं कळङ्कक्षयादिभि स्त दस्य वक्त्रस्य नास्तीति रमावक्त्रस्य चन्द्रातिरेको
व्यज्यते । तत्तादृशहयवदनाङ्कारोहणलाभा लक्ष्मी मन्दं हसति; तन्मन्दहास
च्छायायां हयवदनो निमग्न इव लक्ष्यते । भक्ते ष्वनुकम्पया दुङ्माला: पेष
यति । ततश्च महा नानन्दो भवति भक्ताना मिति मुख्याभिप्रायः । वमन्त
 
bvInckumar@gmail.com.
 
५१
 
Page 65 of 123