This page has not been fully proofread.

तुम
 
श्रीमद्धयवदनशतकम्
 
सत्त्वात् । दिवा तु चित्रभानुदीप्तिसत्त्वं। महाभ्रस्य हृदयाभ्रसाम्यप्रसक्तिः
चन्द्रकलाया: परितः स्थितानां नक्षत्राणां प्रकृष्टदीप्त्यभावात् चित्रभानु
दीप्तिसत्त्वे तु चन्द्रकलाया दीप्त्यभावाच्च तद्व्यतिरेक: । नवरत्नदीप्ति
स्सूर्यदीप्तिवत् हीरलतादीप्ति श्चन्द्रदीप्तिवच भातीति सूर्यचन्द्रयुग
ळावभातं यदि स्या न्नभ स्तर्हि हृदयाकाशसाम्यं तस्य म्या दिति सम्भा
चनालङ्कारो व्यज्यते । तं पूर्वोक्तकिरीटप्रदीप्तं प्रसिद्ध मिति वा इन्दुस्थितं
हयवदनं त्वा मये इत्यन्वयः । हे प्रभो ! इति तु सम्बुद्धि: महाराजस्य तव
किरीटशालित्वं युक्त मिति द्योतयितुम् ॥
 
1
 
न ते कूटस्याग्रे लसति तपनो नापि हिमरुक
न तारा नो शम्पा न च शुचिरमुष्यैव विभया
विभा तीदं सर्वं त दिद मयते ब्रह्मपदवी
महानन्द ! त्वां श्रीहयवदन मिन्दुस्थित मये ॥ ५७
हे महानन्द ! सर्वेभ्योऽपि मनुष्यदेवाद्यानन्देभ्यः ब्रह्मानन्दस्य
महत्त्वेन हयवदनुपरब्रह्मणो महानन्दत्वव्यपदेशः । ते कूटस्य किरीटस्य,
अय पुरतः, तपन स्सूर्यो, न लसति; न तारा लसन्ति; शम्पानो लसन्ति;
शुचि रग्नि नैवलसति किन्तु अमुष्य विभयैव सर्व मिदं ससूर्यचन्द्रादिक
जग द्विभाति । यत एवं त तस्मा द्धेतोः इदं किरीट बह्मपदवीं ब्रह्मेति
प्रतिष्ठा मयते भजति ब्रह्म भवतीत्यर्थः ।
न तस्य पुरत स्सूर्यो माति
न चन्द्रतारका नेमा विद्युत भांन्ति कुतोऽय मग्निः तस्य भासा सर्व मिटुं
वीभा" ती निश्रुति, रत्खानुसन्धेया ॥
 
28/04/12
 
bvInckumar@gmail.com.
 
Page 64 of 123