This page has not been fully proofread.

48
 
श्रीमद्ध यवदनशत कम्
 
स्थितस्य जलजस्य छदैः क्षिप्तः स्वेदः यस्य तम् । लक्ष्मीः वामहस्तेन
पङ्कजं धृत्वा तेन भगवन्तं वीजयती त्यत्र वस्तुस्थितिः । वेदबिन्दव
मौक्तिकान्येव भगवतोऽमरत्वेन खेदानुपलम्भात् । रमाहस्तलीलार विन्द
दळसम्पर्का दित स्ततः भगवदुरसि मुक्ताहारगतमुत्का चलन्तीति
परमार्थ: । ऐताबता लक्षमीकरौ च चिन्तितौ ॥
 
28/04/12
 
रदज्छायो प्रतिपदनव
फेनसुषमा
समुद्दीप्त
स्मेरद्युतिनिचय सृष्टाभ्रसरितम्
 
विवक्षु नः किञ्चित्स्फुरित मिव निलम्ब मधरं
दधानं सवज्ञं हयवदन मिन्दुस्थित मये ॥
 
५०
 
रदानां दन्तानां, छायया उध्बुद्ध प्रतिपदं नव इवाचरन् यः
फेनः तस्य सुषमया समुद्दीप्तस्य स्मेंरस्य युतिनिचयेन सृष्टा अभ्रसरि
दाकाशगङ्गा, येन तम् । ध्यातृहृदयाकाशे तादृशी स्मेरद्युति यर्गप्नुवाना
गङ्गानदीव भातीति भावः । सर्वज्ञत्वान्नः प्रति किञ्चिद्विवक्षु मिव स्थितम
कुतः ? स्फुरितं चञ्चलं, निलम्भं नितरां लम्बमान मघरं दधानम ।
अधरोष्ठस्य लम्बमानत्व मुलमाश्वस्य लक्षणम् । विवक्षो रोष्ठचालनं तु
स्वाभाविक मेवेति बोध्यम् ॥
 
हृदभ्राभिव्यापि प्रावेमलकृपाक्षीरजलधि
प्रजृम्भयङ्गोष्ठद्वयकलित डिण्डीररुचिरम्
मरुद्यातायातप्रतिफणितवेदोच्चलनसं
दधानं विष्णुं त्वां हयवदन मिन्दुस्थित मये ॥ ५१
 
bvinckumar@gmail.com.
 
Page 58 of 123