This page has not been fully proofread.

श्रम
 

 
श्रीमद्धयवदनशतकम्
 
मुक्तिकन्यादानं कुर्वत स्तव शङ्खरवस्य भक्ताय मुक्तिकन्यादाने न शङ्कि
तव्य मिति वन्यते । शङ्खरवश्रवणेनैव शत्रूणां मरणे सति वैयर्थ्य
चक्रस्येति गूढभावः ॥
 

 
28/04/12
 
द्विरेफप्रस्तारप्रतिल सितपत्रान्तरुदय
न्मरन्द त्रिस्रो तस्स्त्रपितकलहंसं सुविपुलम्
कराब्जच्छायाभि स्सितजलरुहं पुस्तकमयं
 
बहूकुर्वन्तं त्वां हयवदन मिन्दुस्थित मये ॥ ४५
 
;
 
द्विरेफाणा मक्षररूपाणां भृङ्गानां प्रस्तारेण समूहेन, प्रति
लसितानां पत्राणा मन्त रुदयता मध्यभागा त्रिस्सरन्त्या मरन्दलिस्रोतसा
मकरन्दगङ्गया, स्नपिता: कलहंसा राजहंसा, कलध्वनिमन्तो हंसाः
पण्डिताश्च येन तम् ; हंसानां स्वर्गाश्रयत्वा लिस्रोतस्स्नपिते त्युक्तम् ।
सुविफल मतिविस्तृतम्, अतऐव मरन्दप्रवाह स्यास्मा दाविर्भाव रसङ्गच्छ
ते । पुस्तकमयं सितजलरुहं श्वेतारविन्दं कराव्जच्छायाभि बहुमान
यन्तम्, कर स्याब्जत्वेन सजातीयसम्मानन स्यावश्यकत्वा दिति भावः ।
इलोका द्यात्मना ग्रथितेभ्योऽक्षरेभ्यः रसरूपा मकरन्दधुनी प्रवहत्येव ।
तस्यांतु विबुधा मज्जन्ति । तेषां रसज्ञत्वात् अक्षराणां नीलत्वाद् भृङ्ग
साम्यम् । पत्राणां श्वेतत्वा च्छ्वेताब्जदळसाम्यञ्चेति बोध्यम् । प्रसिद्धे
कमले तु मकरन्दः द्विरेफैः तत्वेन न स्रवते पुस्तककमले तु द्विरेफै
लङ्कृत देव स्रवति । निरक्षरपदे रसाभावा दिति कमलव्यतिरेक
पुस्तकस्य ध्वम्यते ॥
 
bvInckumar@gmail.com.
 
Page 54 of 123