This page has not been fully proofread.

43
 
श्रीमद्धयवदनशतकम्
 
पञ्च निलयो यस्य सः; यः कलहंसः स इ वाचरतः दरवरस्य प्रभया पूता
आत्मीयाः यस्य तं, हयवदनशङ्खप्रभा गङ्गाप्रवाह इव भगवद्भक्ता नभिव्याप्य
पुनातीति भावः । अत्र दरस्य राजहंससादृश्य मुक्तम् । प्रभाया गङ्गासा
दृश्यं तु ध्वन्यते । छायानिलये त्यनेन शङ्खः करलग्नो वा न वा नाह
जाने किन्तु शङ्खकरयोः प्रभाद्वारा सम्बन्धो दृश्यते इति कव्यभिप्रायः ॥
 
28/04/12
 
es
 
चढ़ीयानां मुक्ति व्यतुलकरपीडामय विधौ
ध्वन त्येष श्रीमन् ! स्वय सभिनवानन्द मकरः
रव इथोत्रे लग्नो दिशति रिपवे मुक्तिललना
ममुष्यापि ब्रह्मन् ! हयवदन मिन्दुस्थित मये ॥ ४४
 
हे श्रीमन् ! हे ब्रह्मन् ! श्रीमत्त्वे प्यविक्रियां द्वोतयितुं सम्बुद्ध्य
न्तरम् । अभिनव स्यानन्दस्य मकरो निधिः, ऐतच्छङ्खदर्शनरवश्रवणाभ्यां
नवनवानन्दस्य उदयमानत्वा दिदं विशेषणम् । नूत्नो नूत्न स्सर्वो प्यानन्दः
अत्र अक्षयस्सन् वर्तते इति भावः । ऐष दरः त्वदीयानां त्वज्जनस्या
मुक्ति रेव स्त्री: तस्याः अनुलो यः करपीडामयः पाणिग्रहणात्मको
विधिः तस्मिन् स्वयमेव ध्वनति; विवाहे शङ्खध्वने शुभावहत्वात् त्व
च्छङ्करवः मुक्तिकन्यापरिणयकालिकमङ्गळध्वनि रिव भातीति भावः ।
अमुष्य शङ्खस्य रवः श्रोत्रे लग्नस्सन् रिपवेऽपि मुक्तिललनां दिशति ।
पाणिग्रहणार्थ मिति शेष: । भगवच्छङ्करवं शृत्वा ये म्रियन्ते ते हि
मुच्यन्ते इति प्रसिद्ध: । अत्र विवाहहेतुभूतः विवाहकाले मङ्गळहेतु
भतश्च हयवदनशङ्खध्वनि रिति फलितम् । रिपवेऽ पीत्यनेन शत्रवेऽपि
 
bvInckumar@gmail.com.
 
Page 53 of 123