This page has not been fully proofread.

He
 
श्रीमद्धय बदनशत कम
 
तथापि तादृशकान्त्यलाभेन निर्विष्णः अग्नौ विवेश । तथाविध ससूर्याग्नि
ज्वालाव द्धयवदनकरकङ्कणानि भान्तीति भावः । एतेन ससूर्यस्या प्य
स्सहस्रारकान्त्यभावेन निर्विष्णस्य शकलीभूतस्य ज्वाला: तादृशकान्ति
लाभार्थी भगवत्करकमले मणिकङ्कणच्छलेन प्रपन्ना इति ध्वन्यते । सूर्यस्य
निशा स्वग्निप्रवेश श्रुतिसिद्धएव । किञ्च केवल स्सूर्य स्सहस्रांशु भूत्वापि
सहस्रारसदृशकान्त्यलाभेन हेतुना अग्नौ प्रविश्य अग्निसाहित्येनापि तादृश
कान्ति मप्राप्य निर्वेदेन निर्भिन्नः श्रीभगवत्करकमलं शरणं प्रपन्न इति च
ध्वन्यते । अपि च भगवत्करसम्बन्धादेव सहस्रारस्य एवंविधकान्तिमत्त्व
मित्यालोच्य ससूर्योप्यग्नि स्तल्लाभार्थं भगवत्करं प्रपन्न इति च ध्वन्यते ।
संवेल्लिते त्यनेन अभि: ज्वालारूप बाहुभिः सहस्रारसदृशकान्तिदानार्थं
भगवत्करं दृढं जग्राहेति ध्वन्यते । केवला त्सूर्यात् ससूर्या दग्नेरपि कान्ति
विजये सहस्रार मुत्कृष्ट मिति ससूर्याग्भिव त्कङ्कणानि भान्तीति च
निष्कर्षः । कराम्भोजस्य च्छाया अनातपः, तद्विषयो यो जनः स एव
हंसव्रततिका हंससमूहः, तया अवगाढं छायारूप मम्बु यस्य तम् । एतेन
हयवदनस्य सरस्सा दृश्य मुक्तप्रायम् ।
जलम्, अम्भोजानि करा:, हंसास्तु शरणागतलोक इति । अत्र हंसव्रत
तिके त्यनेन परमहंससमूह इति ध्वन्यते । हंसा हि ज्ञानिनः भगवत्सरसि
नित्यं मज्जन्ति । भगवत्कराब्जं प्रह्लादे इव तेषु निधीयते इति करा
ब्नच्छायाविषयत्वम् । तेषाम् करा: कमलानीव भान्तीति निष्कर्षः ॥
 
हयवदन स्सर:, छाया तु
 
28/04/12
 
A
 
सहस्रांशुप्रज्ञा विषय निजबिम्बोदरगताऽ
नलज्यालो हाम्तिक्ष पितसुर विद्वेषितमसम्
 
bvinckumar@gmail.com.
 
Page 50 of 123