This page has not been fully proofread.

38
 
श्रीमद्ध्यवदनशतकम्
 
यो सयो र्भुजमूलयो र्व्यालम्बि लम्बमानम् यत् प्रकर्षेण तप्यते
इति प्रतपं तप्त मित्यर्थः ; तपनीयं स्वर्णं तन्मये नाञ्चलेन लसद्दकूलं तस्य
प्रकृष्टेन द्योतेन दीप्त्या, प्रकर्षेण हसिता सुरौकोलहरिका स्वर्गङ्गाप्रवाह:
यस्य तम्; अंसालम्बिदुकूलं श्वेतकान्त्या यद्यपि गङ्गाप्रवाहतुल्यं तथापि
गङ्गायाः स्वर्णाञ्चलशोभाभावा त्ततोऽप्युत्तरीय मुत्कृष्ट मिति भावः । किञ्च
गङ्गाप्रवाह एकधैव प्रवहति नतु द्वेधा । दुकूलं तु वामदक्षिणांसद्वय
व्यालम्बेन द्वेधा प्रवहति इत्यतोऽप्यस्मा इकूला ढुङ्गाया अपकर्षः । अतः
एव प्रहसितेति प्रोपसर्गनिवेशः । असयो स्समत्वविशेषणेन महापुरुषत्वं.
भ्यज्यते । मधुप्रख्यानां मधुप्रमुखानां क्षानां रक्षसा मोघस्य समूहस्य
क्षतेन संहारेण जायेते इति जेताभ्यां भुजकीर्तिभ्यां भुजयो कीर्ती एव
भुजकीत इति शिष्टरूपकं अलङ्कारविशेषः । प्रतिलसन्तौ उच्चै र्लसन्तौ
भुजकीर्यो: प्रातिभट्येन लसन्तौ इति वा । मृदू स्थूलौ असौ यस्य तम्,
ह्यवदनभुजाभ्यां मधुकैटभादिरक्षसां निहतत्वा तदूधजन्या जयलक्ष्मी
रूपा कीर्ति: प्रत्येकं भुजावलम्बि भुजकीर्त्यलङ्काररूपेण भातीति भावः ।
यद्यपि कीर्ति स्सिता भुजकीयैलङ्कारो मणिमयत्वेन पीतत्वादिवर्णकः ।
तथापि हयवदनतनूनिस्सरदमन्दश्वेतशोभाविलिप्त स्सन् सोपि सितव
द्भातीति बोध्यम् । भुजानां चतुष्टयत्वेपि भुजमूलयो रंसयो द्वित्वात् भुज
कीर्योरपि द्वित्व मेवे त्यूह्यम् । अत्र निवीतोत्तरीयो भुजकीर्त्यलंकृतो
हयवदनः कविना ध्यातः ।
 
28/04/12
 
महाभोग्याभोगप्रतिभटभुजादण्डयुगळ
द्वयी निर्धूताई खिडुपलमयस्तम्भसुषमम्
 
bvinckumar@gmail.com.
 
Page 48 of 123