This page has not been fully proofread.

37
 
श्रीमद्भगवदनशत कम्
 
मणीहार इत्यभिख्या यस्य तेन अतुलेन भुजयुगेन आश्लिष्टः
ललितः स्वस्य सोदर्य स्सोदर: कौस्तुभ: येन तस्य अब्जस्य शङ्खस्य
कण्ठस्य श्रिया रमणं य द्वपुः तेन आ समन्ता न्मोहिता रमा यस्य
तम् । नायकमणि र्हि कौस्तुभ: हारस्य मध्ये वर्तते । हारः कण्ठेन
प्रियते; तेन कण्ठस्य इतस्ततो भागद्वये लम्बमानो हार: भुजद्वयसाम्यं
प्राप्नोति । नायकमणिस्तु हारेण अवलम्ब्यते इति बाह्वा लिङ्गनव्यपदेशः ।
कौस्तुभस्य शङ्खस्य च समुद्रजत्वा द्भ्रातृत्वम् । रमा आमोहिते त्यनेन
प्राकृतव न्न स्त्रीपरतन्त्रोऽय मिति गम्यते । स्वाधीनप्रकृतिरिति ध्वनिभावः ।
किञ्च रमाया अपि समुद्रजत्वेन स्वभ्रातृद्वयं भगवति लमं दृष्ट्वा
स्वस्यापि तल्लगनेच्छासी दिति ध्वन्यते । कण्ठरूप इशंख: हाररूपेण भुजद्व
येन कौस्तुभाख्यं सोदर मालिङ्गन् रमाया भगवदा लिङ्गनेच्छां जनयतीति
च ध्वन्यते । तुलस्यादिस्रजां परिमळेन हेतुना प्रकर्षेण मूर्छन्ति काष्ठा
आणि यस्य तमू काष्ठाः दिशः अभ्रं खम् दिशाकाशसर्वावकाश मभिव्या.
मोति तुलस्यादिस्रक्परिमळ इति भावः । ऐतेन कवे हृदयाकाश स्सर्वोपि
परिमळित ऐवेति ध्वन्यते ।
 
28/04/12
 
MY
 
समांसव्यालम्बितपतपनीयाञ्चललस
इकूलप्रद्योतप्रहसितसुरौकोलहरिकम्
मधुप्रख्यक्षौघक्षतजभुजकी तिप्रतिलस
 
मृदुस्थूलांसं त्वां हयवदन मिन्दुस्थित मये ॥ ३८
 
bvInckumar@gmail.com.
 
Page 47 of 123