This page has not been fully proofread.

श्रीमद्धयवदनशतकम्
 
हे श्रीमन्
 
शोभानिधे ! इतिसम्बुद्धिः । वद श्रीजाने त्वा
मिति पाठान्तरम् । हे श्रीजाने ! श्री जया यस्य तस्य सम्बुद्धिः, कौस्तुभ
मणिः त्वत स्सकाशा च्छ्रिय मध्येतुं तव उपकण्ठं कण्ठसमीषे विजयते
वर्तते किम ? यथा शिष्यः गुरोरूपकण्ठं विद्या मध्येतुं वर्तते तद्व दिति
ध्वनिः । एतेन कौस्तुभमणिः कण्ठं भूषयती व्यवास्तम् । किन्तु
कण्ठेनैन स भूण्यते इति लब्धम् । उक्तंच तथा भागवते
कण्ठं च क्रोस्तुभमणे रषिभूषणार्थ " मिति उत्प्रेक्षान्तर माह । रुचिरसा
लेपनकृते रुचिः त्वद्गळकान्तिरेव रसः तेन आलेपनार्थम् गळच्छायायां
मन: किमु ? यथा स्वर्णरसे ताम्रखण्डं मज्जति तद्व दिति भावः । त्वद्गळ
शोभाया स्समुद्रव दपारत्वा तत्र कौस्तुभो मग्न इव नः प्रतिभातीतिं
भावः । उत्प्रेक्षान्तरं पुनराह। त्वया सारूप्यार्थं विधृतः किम ? यथा
भ्रमरेण कीटः भ्रमरो हि कीटं स्वसारूप्यं गमयितुं बिभर्ति तद्वत् स्वगळ
सारूप्यं तद्व च्छ्वेतकान्तिमत्वं गमयितुं त्वं कौस्तुभं बिभर्षि । युक्त मिदं
तव दीनदयाळो रिति भावः । ऐतेन माम प्येवं स्वसारूप्याथ त्वं बिभृहीती
कविप्रार्थना व्यज्यते; तं प्रसिद्धं त्वा मिति सम्बन्धः ॥
 
३३
 
(6
 
28/04/12
 
उठ
 
मणीहारा भिख्यातुल भुजयुगा शिष्टललित
स्वसोदर्याब्जश्रीरमणवपु रामोहितरमम्
 
तुलस्यम्भोजातोत्पलमुखसुमत्रपरिमळ
प्रमूर्खत्काष्ठा हयवदन मिन्दुस्थित मये ॥ ३७
 
bvInckumar@gmail.com.
 
Page 46 of 123