This page has not been fully proofread.

35
 
28/04/12
 
श्रीमद्धयवदनशतकम्
 
३१
 
तभोक्ता या श्रीः रमा, तस्या स्सहचरं वलभ; मणिहारावळिरुचः स्तन
च्छाया स्थगितत्वव्यपदेशेन काञ्चनद्रवलिप्तताम्रखण्डसादृश्ये मणिहारावळे
दोत्यते । तेन च काञ्चनताम्रखण्डयो रिव स्तनहारयो महान् विशेष इति
स्तनशोभाया: मणिशोभात उत्कर्षो द्योत्यते । प्रफुल्लास्मच्चेतःकमले
त्यनेन स्तनयो स्सूर्यशोभा व्यज्यते । तेन च सूर्यवृष्टिसाम्य लक्ष्म्या
व्यज्यते । चेतःकमलेत्यनेन प्रसिद्धसूर्यरुचिना चेतो न विकसत्येवेति
चेतोविकासकत्वधर्मेण रमाया स्सूर्यकान्तित उत्कर्षो द्योत्यते। अत्र च
प्रफुल्लेति प्रोपसर्गोपि ज्ञापक एव । मणिहारावळिरुचः केवलाया: सूर्यशोभा
तुल्यत्वेन कमलविकासकत्व मस्तु नाम । चेतः कमलविकासकत्वं तु नास्तीति
तदर्थं स्तनशोभास्थगितत्व मावश्यक मिति ध्वन्यते । चेतसो विकासो नाम
आनन्द एव रमाया वक्रद्वन्द्वं स्तनद्वयात्मकं स्थाङ्गद्वयम, तस्य अविरत
तमस युक्त्या निर• तरसंयोगेन: अनुमित: प्रतापरूप आदित्यः यस्य तम् ;
हयवदनप्रतापादित्य सम्बन्धेन चक्रद्वयमविरतसंयोगशालि भवतीति भावः ।
अत्र प्रतापे त्यनेन चक्रपदा द्राष्ट्रार्थो ध्वन्यते । अतिशयप्रतापशाली
हयवदनः रमाया श्चक्रद्वन्द्वं स्वाविरतसंयोगविषयं चकार; स्वायत्तीकुतवा
तिते । अतिशयप्रतापशालिवादेव हयवदन स्यैवंविधकीर्तिमूर्ति
भूतलक्ष्मीलाभ इति लक्ष्म्याः कीर्ति : सादृश्यञ्च ध्वन्यते ॥
 
S
 
श्रियं त्वत्तो ध्येतुं तव कि मुपकण्ठं विजयते
गळच्छायामश: किमु रुचिरसालेपनकृते
त्वया सारूप्यार्थं किमु नु विवृतः कौस्तुभमणि
वंद श्रीमन् ! तं त्वां हयवदन मिन्दुस्थित मये ॥३६
 
Page 45 of 123
 
bvinckumar@gmail.com.