This page has not been fully proofread.

उं३
 
श्रीमद्धयवदनशतकम्
 
२९
 
श्रियो लक्ष्म्याः पदं स्थानभूतं पद मङ्क इश्रीवत्सात्मकः यत्र त दिति वा ।
पद्मस्रकू पद्मसङ्घः निलयो यस्यास्सा पद्मालयेति यवत् । बहू नन्
लाति ददाति भक्तेभ्य इति बहुळा वदान्या, या श्रीः रमा, तस्याः पदयोः
पदं स्थानमूत मिति च प्रतीयते । एवं विधं तव उरः कर्म निरीक्षन्त्याः
नितरा मीक्षन्त्याः, अधिक सौन्दर्यत्वेन अतृप्त्येत्येकत्र भावः । वामाङ्क
स्थिता या मत्तोऽप्यन्या काचन लक्ष्मी रस्ति त्वदुरसीति ईर्षये त्यन्यत्र
भावः । लक्ष्म्याः अपाङ्गः त्वदुरसि लगति किम् लग्नः किम् ? श्रीवत्स
रूपेणेति भावः । अतः लक्ष्म्यपाङ्गसङ्गा द्धेतोः पद्म सनिलयब हुळश्रीपद
पदत्वा द्धेतोश्च हरि लक्ष्मीवक्षा इति स्मृति र्न व्यभिचरति । लक्ष्मी शोभा
रमा च वक्षसि यस्या सौ लक्ष्मीवक्ष: । लक्ष्म्यपाङ्गस्य वक्षस्स्थत्त्वा
ल्लक्ष्म्या वक्षस्थ्सत्वन्यपदेश इत्येकत्र भाव: । पद्ममालोदयलक्ष्मीवक्षस्स्थसत्वा
ल्लक्ष्मीवक्षस्कत्वत्र्यपदेश इत्यन्यत्र ऐतावता पद्ममालालङ्कृतत्वा दुरस्स्थल
विजृम्भमाणच्छाया मभीक्ष्य विदुषां हरिवक्षसि लक्ष्मी रस्तीति व्यवहारः ।
न तु काचन स्त्री तत्रास्तीति; कुत वामाङ्के लक्ष्म्या स्स्थितत्वा दिति
फलितम् ॥
 
श्रिय शोभाया: कि नवजनि कि मत श्रीरुद्गमत्
श्रिया युक्तं वसं किमु तव पदत्वेन भजते
अत इश्री र्वसे ते भवति कि मिदं लक्ष्म रुचिरं
हरे ! श्रीवत्साख्यं हयवदन मिन्दुस्थित मये ॥ ३४
 
हे हरे ! हर त्याश्रिताज्ञान मिति हरिः । मदज्ञाननाशार्थं भवत्प्र
पति रिति द्योतयितुं सम्बुद्धि रियम् । इदं रुचिरं श्रीवत्साख्यं लक्ष्म
 
28/04/12
 
bvInckumar@gmail.com.
 
Page 43 of 123