This page has not been fully proofread.

32
 
૨૮
 
श्रीमद्धयवदनशतकम्
 
मात्मीयं चिम्बं नः प्रतिस्मितशोभाभि दर्शयति चन्द्रिकया सह चन्द्र
बिम्बस्य भुवि दृश्यमानत्वात् । यथा दीपै रात्मानं दर्शयति तद्व दिति
भावः । सन्तोषेण दर्शयतीति वास्तवार्थः । सन्तोषश्च भगवानिव अहमपि
साङ्क इति हेतोः । हर्यो रिन्द्रचन्द्र द्वन्द्वस्य या चश्मानौ मणी इन्द्र
नीलमणि श्चन्द्रकान्तमणिश्चति यावत् ; तयो रामाव्यतिकलनात् कान्त्यो
स्सम्मेळना, ज्जा जाता, या अपूर्वसुषमा सेयं लोके चन्द्रदीप्तेः क्व वा
कुत्रास्ति ? न क्वापि । यद्वा इयं मदन्तर्दृश्यमाना तादृशी सुषमा लोके
क्व वा इत्यन्वयः । साङ्कस्य तव स्थित्या मदन्त रपूर्वसुषमा समुज्जृम्भते
साङ्कचद्र स्थित्या तु लोके श्वेतशोमैव; न तु तादृशी अपूर्वसुषमेति भावः ।
एतेन वृधायं चन्द्रस्य सन्तोष: स्वाङ्कस्य निश्शोभत्वा दिति त्वद्वक्षसि सति
चन्द्रस्यानुदय एव वर मिति फलितम् । गुणत स्सादृश्यमेव सादृश्यं
रूपत स्सादृश्यं तु अकिन्चित्कर मिति एतच्छोकस्य गूढोपदेशनम् ॥
 
28/04/12
 
तवोरः पद्मस्र निलय बहुळश्रीपदपदं
 
निरीक्षन्त्या लक्ष्म्या लगति कि मपाङ्ग स्त्त्वदुरसि
हरि लक्ष्मीवक्षा व्यभिचरति नेति स्मृति रतः
प्रकृष्टप्रज्ञ ! त्वां हयवदन मिन्दुस्थित मये ॥ ३३
 
हे प्रकृष्टप्रज्ञ ! प्रकृष्टा प्रज्ञा शेमुषी, यस्मा द्भवति भक्तानां
तत्सम्बुद्धिः; प्रकृष्टा प्रज्ञा यस्य तस्य सम्बुद्धि रिति वा; सर्वज्ञेति यावत् ।
पद्मस्रक् निलयो यस्या स्सा पद्मसनिलया, पद्ममालोद्भवेत्यर्थः । बहुळा
उत्कृष्ठा, या श्री: लक्ष्मी: शोभा, सैव पदं वस्तु तस्य पदं स्थानभूतम् ।
 
bvInckumar@gmail.com.
 
Page 42 of 123