This page has not been fully proofread.

31
 
श्रीमद्धयवदनशतकम्
 
इति अस्यापूर्वत्वम् । एकस्य कण्ठगतत्वात् स्वस्यापि कण्ठगतत्वे सपत्नी
विरोध त्या दिति एतस्य मणे वक्षोगतत्त्व मिति ध्वन्यते । सिताम्भोजातस्थ
भ्रमरमिव स्थित मित्त्युपमा । श्रीवत्सं चिह्नं सन्योरसि पूर्वकाय इतिवत्
समासः । उरसस्सव्यं सन्योर तस्मि न्निति सव्यं च त दुर स्तस्मिन्निति वा;
मुदा सन्तोषेण दधानम् । कौस्तुभो हि मथनश्रमवता मया लब्धः । इदं
तु श्रमं विनैवेति सन्तोष इति भावः । स्वशरीरशोभोत्पन्नत्वा त्पुत्रव
च्छ्रीवत्से हयवदनस्य प्रीतिरिति ध्वन्यते । श्रीवत्सचिह्नं हयवदनस्य सहज
मिति वक्तुं तत्तनुभानिर्मन्थोदित मियुक्त मिति श्रीवत्सस्य सहजत्वं च
ध्वन्यते ॥
 
.
 
28/04/12
 
·
 
सहाङ्क त्वद्वक्षः कलन विमलात्मा हिमरुचिः
सहाङ्कं स्वं बिम्बं स्मितविलसनै दर्शयति नः
हरिद्वन्द्वाश्माभाव्य तिकलनजापूर्वसुषमा
क्व वेयं लोके त्वां हयवदन मिन्दुस्थित मये ॥३२
 
अत्र अये इत्त्यावर्त्यते । अये इति सम्बोधनम् । तथा च प्रयोगः
अये गौरीनाथ त्रिपुरहर शम्भो त्रिणयनेति' यद्वा हे प्रभो ! इति
शेष: -- सहाङ्कस्य सचिह्नस्य त्वद्वक्षस: कलनेन दर्शनेन, विमल: आत्मा
मनो, यस्य सः । अनेन दर्शना त्या क्तस्य मालिन्य मस्त्येव मनसीति
फलितम् । सकळकं मां जना निन्देयु रिति मनसङ्कोच ऐवाल मालि
न्यम् । सर्वेश्वरस्य भगवतश्व हात्वे कः पुन मंग जनापवाद इति
चन्द्रस्य मनो निसङ्कोच मिति भावः । हिमरुचि चन्द्रः सहा
 
bvInckumar@gmail.com.
 
Page 41 of 123