This page has not been fully proofread.

श्रीमद्धयवदनशतकम्
 
तव सिंहमध्यत्वं न एकं कौतुकपद मिति फलितं । हे मदात्माराम
मम आत्मनि मनसि रमते इति तत्सम्बुद्धिः । त्वया दन्ती गजेन्द्रः,
लाता इत्यपरं नः कौतुकस्य स्थानं भवति । सिंहमध्येन गज स्त्रात
इत्याश्चर्य मिति भावः । गजं तिर्यग्जन्तुमपि, त्रातवा निति मतूत्राणार्थं
भवद्यानं कौतुकमिति वास्तवार्थ: । इव शब्देन न एव आश्चर्यं तव
तु नैवाश्चर्थम् । फणिपतिशायिनः गरुडध्वजस्येति च विरुद्धवस्तुद्वय
सामानाधिकरण्यटक स्येति व्यज्यते ।
 
26
 
28/04/12
 
अपूर्वात्माम्भोजा भिपतदळिमाला तुहिनरु
दूपत्तीर्थ च्छायाव्यतिकर सिता ब्रूत इव ते
प्रपन्न प्रस्तार प्रबलमलसंक्षाळनयशः
प्रभो ! नः श्रीश ! त्वां हयवदन मिन्दुस्थित मये ॥
 
हे प्रभो हे श्रीश ! श्रीया लक्ष्म्या, ईश अपूर्वं य दात्मन स्तव अम्भोजं
नाभी रूपं त दभिपतन्ती अभिमुखं प्रसरन्ती अळिमाला भृङ्गपङिक्तः,
तव रोमावळिरूपेति भावः । तुहिनरु दृषदां चन्द्रकान्तमणीनां, यानि
तीर्थानि चन्द्रकान्तमणिमयतीर्था नीत्यर्थः । त्वत्त्रिवळीरूपाणीति भावः ।
तेषां छायाया: व्यतिकरेण सम्बन्धेन सिता श्वेता सती हयवदनस्य
स्वत इश्वेतरोमत्वेन रोमावळिरपि श्वेतैवेति वेतत्वहेतृत्प्रेक्षेयम् ।
वळिच्छायासम्बन्धा दिति, ते तव सम्बन्धि प्रपन्नप्रस्तारस्य सेवक समु
दायस्य, यत्प्रबलः मलः तं संक्षाळयतीति प्रसन्नप्रस्तारप्रबलमलसंक्षाळन:-
.
 
bvInckumar@gmail.com.
 
Page 36 of 123