This page has not been fully proofread.

श्रीमद्धयवदनशतकम्
 
त्वया त्रातो दन्ती त्यपरमिव नः कौतुकपदम
मदात्माराम त्वां हयवदन मिन्दुस्थित मये ॥ २६
हे व्यतिकलितनिर्मध्यललन ! व्यतिकलिता सङ्गता, निर्मध्य
मध्यभागहीना, गगनावलग्नेति भावः । मध्यपद मुपलक्षकं । आदि
मध्यान्तहीनेति च । ललना स्त्री, लक्ष्मीः यस्य तस्य सम्बुद्धि: लक्ष्मी
सहितेति यावत् । त्त्वं नः स्वस्य नरहरि नरसिंह: मध्यावतर: यश्य
तस्य भाव स्तत्ता, ताम् । आदि स्वतारो मत्स्यः, अन्तः कलिकि रिति,
तदितरे मध्यावतारा इति नरसिंहावतारस्य मध्यत्वं प्राप्तं । सर्वे प्यवतारा
विराज सकाशा द्भवन्तीति अवतारवान्; विरादेव । तथा च नरहरि
 
.
 
मध्यावतारो यस्य तस्य । विराजो भावं
 
स्वसम्बन्धिनम् इति अक्षरार्थ:
 
एतेन हयग्रीवो घिरा डिति फलितम् ।
 
खविराट् पुरुषत्वमिति यावदर्थः ।
 
मध्यम् सत्यलोक शिशरश्च
 
अनेन वलग्नेन मध्येन करणेन ब्रूषे गगनतुल्यं तव मध्यमेव तव विराट्पुरु
षत्वं नः प्रतिव्याख्याति पाताळं पादमूलं द्यौ
विरापुरुषस्येति हेतो रिति भावः । द्यौर्नाम चन्द्रादिभ्रमणस्थानम् ; न तु
स्वर्गः । अत्र स्वस्य नरस्य परमात्मनः न रीयते न क्षीयते इति नरः
परमात्मा । ' नारायणो नाम नरो नराणा ' मिति प्रयोगश्च यो हरि
मध्यावतारः हरे स्सिहस्य मध्यमिव मध्यं यस्य स हरिमध्यः स चासा
ववतारः तत्तम् । सिंहमध्यतुल्यमध्यभागवदवतारत्व मित्यर्थः इति प्रतीयते ।
त्वन्मध्ये दृष्टे नः सिंहमध्यावतारो भवानिति प्रतीयते इति भावः । तव
सिंहमध्यस्य सदृशीयं निर्मध्य ललनेति वक्तुं सम्बोधनं । विराज स्तव
प्रकृति र्भार्येति समीचीनमिति वक्तुं सम्बोधन मिति वास्तवार्थः । एतावता
 
28/04/12
 
25
 
bvlnckumar@gmail.com.
 
Page 35 of 123