This page has not been fully proofread.

श्रीमद्धयवदनशतकम्
 
लसन् प्रकाशवान् विकासवानिति च यः नाभीरूप: पद्म: तेन
अनुमितं सुरगङ्गात्वं येन तेन, यस्य तस्येति वा, सुषमाप्रवाहेण सुषमा
प्रवाहस्य वा, अभिक्रान्त्या अभिव्याप्त्या करणेन कर्या वा; प्रधिता
प्रकटीकृता, हिमभूमीघरतुला यस्य तम् । इयं सुषमा सुरगङ्गा भवितु
महंसि, विकसत्पद्मवत्त्वात् । यथा गङ्गा इति प्रयोग: गङ्गायामिव सुष
मायामपि गङ्गात्व मस्ति । अन्यथा विकसितं पद्म मत्र नोपलभ्येतेति
भाव: । लसद्विशेषणेन पद्मं जला दपनीत मुकुळितं स्यादिति विकास
क्त्वादिदं जलस्थितमेव पद्मम् । जलं तु सुषमैवे त्युक्तं भवति । अयं हय
ग्रीवो हिमाद्रि भवितु मर्हति । सुरगङ्गावत्वा द्यथां हिमाद्रि रिति प्रयोगः ।
यद्यपि गङ्गा भुव्य व्यस्ति; सुरगङ्गा आकाशगङ्गा तु हिमवत्येव न
त्वाकाशे इति भ्रमितव्य ममूर्तत्वा न च शिवशिर स्यपीति वाच्यम्;
स्त्रीरूपेण तत्र भानात । यद्वा गङ्गाया शिशरस्येव शिवस्य व्याप्ति: न
त्वभितोऽङ्गे इति अभिकान्तिपदेन शिवस्य निरास: सुषमा व्याप्तोऽयं भवान्,
गङ्गाव्याप्तो हिमवा निव भातीति भावः । जगत्त्रेताया: त्रिभुवनस्य, य
उन्मेष: प्रळये लीनस्प प्रपञ्चावस्था प्रादुर्भावे योविकासः तस्यातिशयं सह
ते इति सहनम् । कुत. अत्यन्त विपुलम् । स्फुरत् नाभी रूपं पद्मं यस्य तम ।
भगवन्नाभीपद्मादेव जगत्रिय स्याविर्भावा दतिविपुलत्त्वम । त्रिभुवनसंङ्घर्षे
णापि न व्यते इति वक्तुं स्फुरद्विति । इयं नाभी अतिविपुला जगत्त्रेतो
न्मेंशातिशयसहत्वात् आकाशवदिति प्रयोगः ॥
 
२०
 
28/04/12
 
24
 
अपि ब्रूषे त्वं न स्स्वनरहरिमध्यावतरतां
वलने नानेन व्यतिकलितनिर्मध्यललन !
 
bvInckumar@gmail.com.
 
.
 
Page 34 of 123