This page has not been fully proofread.

श्रीमद्वयवदनशतकम्
 
१९
 
यथा श्रीहरे भी इति प्रयोगः न च प्रसिद्धपद्मस्यापि पद्मजानुत्पादा
त्साध्यविकल मेत दिति वाच्यम् । प्रसिद्धपद्मं पद्म नभवत्येव । किन्तु
हरिनाभिरेव पद्ममिति विवक्षितत्वेन तत्रापि पद्मत्वामाक्स्य अस्माक
मिष्टत्वात् । नाभिं परिवृतवती त्यनेन लज्जा गम्यते । न्यूनत्वास्पदं तद्धि
हियाऽऽच्छाद्यते । वस्तुतस्तु स्त्रीणां नाभीदर्शनस्य अयुक्तत्वेन दुकूाच्छा
दनं तस्य आवश्यकमेव । अतएव हि पुरुषं मोहयितुं कयाचि द्विला सिन्या
कदाचि नामी प्रदर्शते । पद्मनिलये त्यनेन मम पद्ममेव निलय इति
भगवन्नाभी पद्मे स्थातुं रमा वाञ्चतीति व्यज्यते । अतएव नाभिपद्मे
दृगळिप्रेषणम् । अळित्त्वारोपेण पद्मे अळिस्थिते सम्भावितत्वेन भगवन्नाभी
पद्मे मद्दगळय: स्थापयितव्या एव नोचे न्मरन्दालाभेन अळयो न
भविष्यन्तीति व्यज्यते । अनेन च लक्ष्म्याः भगवन्नाभीसौन्दर्यसमाकृष्ट
नयनत्वं व्यज्यते । तेन च भगवन्नाभी न पद्मतुल्या नापि लक्ष्मीनाभि
तुल्या; किन्तु सर्वाधिकेति फलितम् । श्रीनाथ मित्यनेन लक्ष्मीयुक्तो
भगवान् ध्येय इति व्यज्यते । नातिविकसितं नातिमुकुळितञ्च कमलं नाभिव
दगाधं भातीति पद्मसाभ्यं नाभे र्बोध्यम् ॥
 
23
 
28/04/12
 
लसन्नाभीपद्मानुमितसुरगङ्गात्वसुषमा
प्रवाहाभिकान्तिप्रधित हिमभूमीधरतुलम्
जगलोतोन्मेषातिशय सहनात्यन्तविपुल
स्फुरन्नाभीप हयवदन मिन्दुस्थित मये ॥ २५
 
bvInckumar@gmail.com.
 
Page 33 of 123