This page has not been fully proofread.

20
 
श्रीमद्धयवदनशतकम्
 
यः देवीनां देवाङ्गनानां कचभरः देवस्य स्त्री देवी इति पुंयोगे ङीष तस्य
छलेन दयाजेन उद्य दाविर्भवत् य तामिस्रं तस्य व्यतिकलनेन सम्पर्केण,
जः जावः॑ः, यः स्नेहः सुहृद्धर्मः, तैलञ्च तद्युक्ते चरणे यस्यास्तामूं व्यति
कलनजः स्नेहः ययोस्तौं चरणौ यस्या स्ता मिति वा ।` पदवि श्चरणोऽ
स्त्रिया मित्यमरः । स्वनखैः प्रतिलसितत्वा त्कचभरे चरणयो स्नेह आसी
दिति ध्वन्यते । कचभरसंस्पर्शा चरणयोः कचभरसम्बन्धि तैलसंयोग आसी
दिति वास्त॑वार्थः । सूर्येणापि तामिस्रं दीप्यते इति विरोधः । नखरोचिषा
केशपाशनैस्य भृशं प्रतिभातीति तत्परिहारः । यद्वा मायात्वेन लक्ष्म्याः कर्तु
मकर्तु मन्यथा कर्तुं च शक्ति रस्तीति सूर्यकिरणैरपि देवीसङ्कल्पेन तामिस्रं
द्योत्यते इत्यविरोधः । एवं नखेषु अर्कोसत्व मारोप्य तद्भूषितरत्वपुरस्का
रेण कचभरे तामित्रत्वारोपणात् लक्ष्म्याः प्रकृतित्वं व्यज्यते । (प्रकृति
र्माया) कटाक्षाणामें वाब्जानां वातेन समूहेन अर्चितौ पत्यु र्हयवदनस्य
पदाम्भोरुहौ यया ताम् । एतेन पातिव्रत्य सूच्यते । चन्द्रास्यां लक्ष्मीं
दधानम् ॥
 
28/04/12
 
पदाम्भोजच्छायारसभरनिमञ्जत्कमठधी
समालम्बद्ल्फावरण सुमणी नूपुरगणौ
मनोभृतणीरप्रतिभटसुजङ्ग प्रिय रमे
 
युवा मम्भोजाक्षी हयवदन मिन्दुस्थित मये ॥ २१
 
हे प्रिय आत्मन् आत्मा हि प्रिय सर्वस्य । हे रमें लक्ष्मीः,
इन्दुस्थितं हृयवदनं; इन्दुस्थिता मम्भोजाक्षीं चेति युवा मह मये शरणं
 
bvinckumar@gmail.com.
 
Page 30 of 123