This page has not been fully proofread.

19
श्रीमद्धयवदनशतकम्
 
अपाङ्गै स्तन्वानां चरणकमले भृङ्गसुषमां
भजन्तं श्रीकान्तां हयवदन मिन्दुस्थित मये ॥ १९
 
एवं हयवदनचरणौ ध्यात्वा तदङ्गत्वेन लक्ष्मीचरणं प्रार्थयति कविः ।
नमन्तीनां देवीनां कैश्येषु यो भ्रमरनिकरः तेन ख्यापिता या निजा
स्फुटाब्जत्वप्रख्यातिः, ता मनुवचन्तीति अनुवचनाः सन्त इश्रेष्ठा नूपुराः
पदयो यस्या स्ताम्; पदस्य स्फुटाब्ज मिति प्रख्याति रस्ति सा तु पदलमैः
देवीकैश्यागतै भ्रमरैः प्रख्याप्यते । बहुळसौरभपूर्णमपि कैश्यं त्यक्त्वा
पदस्य अब्जत्वा देव पदे भ्रमराणां प्रवेश इति ज्ञायते इति भावः । एवं
झङ्कारव्याजेन भ्रमरैः कीर्त्यमानां पदान्जप्रख्या तिं नूपुरा दिशञ्जाव्याजेन
अनुवदन्तीवे त्युत्प्रेक्षा । चरणकमले हयवदनस्येति भावः । अपाकटाक्ष
पातैः, भृङ्गशोभां तन्वानां श्रियालोकितं हयवदनचरणं समृङ्गे पद्ममिव
भातीति भावः । स्त्रीणा मपाङ्गा नीला इति प्रसिद्धि: । एतादृशीं श्री
कान्तां लक्ष्मीनामिकां प्रियां भजन्तं वामा बिभ्राण मित्यर्थः ।
 
28/04/12
 
नखार्कोस्रद्योतप्रतिलसितदेवीकचभर
च्छलोद्यत्ता मिस्रव्य तिकलनजस्त्रेहचरणाम्
कटाक्षान्जबातार्चितपतिपदाम्भोरुहयुगां
दधानं चन्द्रास्यां हयवदन मिन्दुस्थित मये ॥ २०
 
नखैरेव अस्त्रै स्सूर्यकिरणैः, द्योतेन प्रकाशन, फरणेन, प्रति-
लसितः प्रभूषितः नखानामेव अर्कोत्राणां द्योतेन प्रतिरूसित इति वा
 
bvInckumar@gmail.com.
 
Page 29 of 123