This page has not been fully proofread.

१४
 
श्रीमद्धयवदनशतकम्
 
उपमनानीति समासः यस्य तम् । शचीन्द्रौ गौरीरुद्रौ वाणीहिरण्यगर्भों
इत्येवंद्वौ द्वौ दम्पती युगप तस्य पादाब्जयो र्नमत इति स्त्रीणां वामपाद
सेवा, पुंसां दक्षिणपादसेवा च लभ्यते इति भावः ॥
 
18
 
28/04/12
 
नटज्जाटाटीरोन्मकुटतटरिङ्गत्सुरनदी
तरङ्गप्रोद्रुष्टस्फुटजलजसादृश्यचरणम्
पदाब्जोयन्माध्वीरसभरसमास्वादमुदित
 
स्वयम्भूप्रस्तावं हयवदन मिन्दुस्थित मये ॥ १८
 
,
 
जटाटीर एव जाटाटीर: स्वार्थिकोऽण् नटतो जाटाटीरस्य उन्मकुट
jटे उन्नतशिरोदेशे, रिङ्गन्त्या स्सुरनद्या स्तरङ्गैः, करणैः प्रोष्ट मिति
गर्तमाने क्तः, प्रकर्षेण उद्घोष्यमाणं, स्फुटजलजसादृश्यं विकसित कमलसा
दृश्यं यस्य त चरणं यस्य तम् । हयवदनचरण मम्बुजसदृश मिति
'सुरनदीतरङ्गरवव्याजेन नः व्याख्यातीति भावः । हयवदनचरणाब्जनतिकाले
शिवशिरसि लग्नो मधुबिन्दु रेव सुरनदी इति मधुबिन्दुमत्त्वा दिदं चरण
मम्बुज मेवेति गङ्गया प्रतिपाद्यते इति ध्वनिः । अब्जमिव पदं पदाब्ज
मुपमितं व्याघ्रादिभि रिति समासः । तस्मा दुध न्नाविर्भवन्, यो माध्वीरस
भर: मकरन्दातिशयः, तस्य समाखादेन मुदितस्य स्वयंभुवः ब्रह्मणः,
प्रकृष्टः स्तावः स्तुति र्यस्य तम्; स्वयंभुवा सह प्रस्ताव: प्रसङ्गो यस्य त
मिति वा । एतेन शम्भुब्रह्मणोरपि ह्याननपादपद्मं सेव्य मिति फलितम् ॥
 
नमद्देवी कैश्य अमर निकर ख्यापितनिज
स्फुटाब्जत्वप्रख्यात्यनुवचनसन्नू पुरपदाम्
 
bvinckumar@gmail.com.
 
Page 28 of 123