This page has not been fully proofread.

17
 
श्रीमद्धयवदनशतकम्
 
१३
 
मुस्कटं भजकाना मात्मनि हृदये अन्धतमस मज्ञानात्मकं याभ्यां ते
सुधीनां विदुषां धियो बुध्धे सङ्घर्षावर्षणादिव अरुणितं तल मधो
देशः ययो स्तौ निरन्तरभक्तबुद्धिसन्निधानेन योगिबुद्धेः कठिनत्वा तद्
बुद्धिघर्षणा त्पादयो ररुणत्व मिति भावः । योगिबुद्धि र्य द्यकाठेना
तर्हि संसारमेव सत्यजे दिति बोध्यम् । मांसलतमौ बलिष्ठौ अन्याभा
अन्त्रादीनां बहिर्दर्शनेन शोभाहैन्यं स्यात् । सिताम्भोजौ श्वेतारविन्द्
तुल्यौ पादौ बिभ्राणं भवन्त मित्यन्वयः ॥
 
28/04/12
 
नमद्देवी मौळिस्थितसुरमही जातकुसुम
स्रवन्माध्वी चिन्दुव्रततिपरिषिक्तैकचरणम्
 
महेन्द्राधुन्मस्तस्थगितमणिकोटीरमणिभा
प्रदीताब्जा हयवदन मिन्दुस्थित मये ॥ १७
 
नमन्त्यो या देव्य इशची प्रमुखा: 'पुंवत्कर्मधारयेति' पुंकद्भावः ।
तासां मौळिस्थितेभ्य: सुरमहीजातकुसुमेभ्य: पारिजातपुष्पेभ्यः स्रवन्ती
"धृवमपायेऽपादान" मिति "पञ्चमी पञ्चमीति" योगविभागा त्समासः ।
या माध्वीबिन्दुव्रततिः मकरन्दबिन्दुसन्ततिः, तया परिषिक्त मेकं वामं
चरणं यस्य तम्, महेन्द्रादीना मुन्मस्तेषु मस्तकोपरिभागेषु स्थगिता
ये मणिकोटीरा: मणिमयानि किरीटानि शाकपार्थिवादित्वा दुत्तरपद
लोपिसमासः । तेषु ये मणय : तेषां भाभि दीपायिताभिः कान्तिभिः
प्रकर्षण दीप्तः नीराजितः । अन्य: अब्जमिव अडिच रब्जादित्र: ।
 
1
 
bvinckumar@gmail.com.
 
Page 27 of 123