This page has not been fully proofread.

१२
 
16
 
श्रीमद्धयवदनशतकम्
 
प्रतापं कीर्ति वा किमु तनुतया ब्रह्म स भवान्
बिभर्ति त्वां भूमन् हयवदन मिन्दुस्थित मये ॥ १५
 
भवती च भवांश्च भवन्तौ 'पुमान् स्त्रिये त्त्येकशेषः' । भक्तो इछया
युग्मस्य व्यतिकलनेन मेळनेन जाता काचन रुचि: भजकानां
हृदये प्रकृष्टं हीरं वज्रं माणिक्यञ्च सङ्गमयति । हृदयेन युवां चिन्त
यतः पुनः हृदये युक्यो श्छायायां लग्नायां हीरमाणिक्यसम्मेळनमिव
भक्तो मन्यत इति भावः । ब्रह्म परब्रह्मभूत स्स भवान् तवैव प्रतापं
कीर्रि च तनुतया शरीरत्वेन बिभर्ति किम् ? कीर्तिः प्रतापश्चेति ब्रह्मण
उभौ गुणौ उभे शरीरे भवतः, तल कीर्तिशरीरकं ब्रह्म भवान्, प्रताप
शरीरकं ब्रह्म भवती चेति भावः । कीर्ते इश्वेतत्वात् प्रतापस्य अरुणत्वा
च्चेय मुत्प्रेक्षा । हे भूमन् ! 'यत्र नान्य त्पश्यति नान्य च्छृणोति नान्य
द्विजानाति स भूमा'; तस्य सम्बुद्धिः ॥
 
28/04/12
 
सिताम्भोजौ पादौ ध्वजकुलिशपद्मारिदरितौ
नखज्योत्स्नाधूतप्रकट भजकात्मान्धतमसौ
सुधीधीसङ्घर्षा दरुणिततलौ मांसलतमौ
भवन्तं विभ्राणं हयवदन मिन्दुस्थित मये ॥ १६
 
ध्वजकुलिशपद्मारिचक्रं दर शङ्ख इतीमे यत्र सञ्जाता स्त
धोकौ 'त दस्य सञ्जात' मिति तारकादित्वा दितच् । नवज्योत्स्नया
अनेन नखानां चन्द्रकलायितत्व मुक्तं भवति । धूत मपाकृतं प्रकट
 
bvlnckumar@gmail.com.
 
Page 26 of 123