This page has not been fully proofread.

श्रीमद्धयवदनशतकम्
 
१२
 
झर्या परीतं रौप्यक्षितिघरं कैलास क्षिपसि । अथ त्वद्रुचिवृता रमापि चन्द्र
च्छायावृतं सुवर्गक्षितिघरं मेरुं क्षिपति । हे अजाक्ष ! त्वा मये ॥
 
भवच्छा यायुग्मावृतिसुभग मेतत् त्रिभुवनं
कविक्ष्माजच्छायापरिवृतनभोभागरुचिरम्
सुगङ्गाशोणद्वय्यनवरतसक्कक्षितिफणि
स्फटाभोगाधस्कं हयवदन मिन्दुस्थित मये ॥ १४
 
भवतो र्दम्पत्थो श्छायायुग्मस्य आवृतिना सुभगं सुन्दर मेत परि
दृश्यमानं त्रिभुवनं । कवे शुकस्य क्ष्माजस्य अङ्गारकस्य च छायाभ्यां
परिवृतेन नभोभागेन रुचिरम् । तथा शोभनयोः गङ्गाशोणनदयो र्या द्वयी
तथा अनवरतसक्ता क्षिति र्यत्र तत् । तथा फणिना मादिशेषादीनां स्फटा:
फणाः लक्षणया तत्स्था मणय: भोगा इशरीराणि तयुक्त मधः अधोलोक:
यत्र तत् भवतीति शेषः । भवच्छायायुग्मावृता द्यौः कविक्ष्माजच्छायापरि
वृतेव भाति । क्षितिस्तु गङ्गाशोणद्वयसङ्गतिशालिनीव भाति; पाताळस्तु फगि
मणिभोगद्वयच्छाया सङ्गत इव भातीति भावः । अत्र दिवि शुक्र कुज
रूपेण, भुवि गङ्गाशोणरूपेण, पाताळे फणिमणिभोगरूपेण च, युवयो
श्छायाद्वयं भातीति व्यज्यते ॥
 
28/04/12
 
भवच्छायायुग्मव्यतिकलनजा काचन रुचिः
प्रहरं माणिक्यं भजकहदये सङ्गमयति
 
bvInckumar@gmail.com.
 
Page 25 of 123