This page has not been fully proofread.

13
 
२१
 
श्रीमद्धयवदनशतकम्
 
भावः । पातुं वाञ्छन्ति सुधाभ्रान्त्या, इह रुचौ प्रतिकृतिं स्वप्रतिबिम्ब
मालोकितुं द्रष्टुं वाञ्छन्ति मुकुरभ्रान्त्या । तथा इह स्नातुं वाञ्छन्ति
गंज म्रान्त्या । इह स्थातुं वान्छन्ति प्रासादम्रान्त्या । अमूं रुचं
मुखपरिमळद्रव्ये ताम्बूले कलयितुं वाञ्छन्ति मुक्ताचूर्णभ्रान्त्या ।
श्रीमन्तो हि ताम्बूलविशेषेषु सुधास्थाने मुक्ताचूर्ण क्षिपन्ति; यद्वा सुधा
भ्रान्त्या इति वाच्यम् ॥
 
28/04/12
 
रुचि स्ते पाताळे फणिपतिमिषा द्धाति धरणौ
पयोऽम्भोधिव्याजा दिवि सुरनदीदम्भत इयम्
द्युभृम्यन्त चन्द्रच्छलत इति लोकत्रय मभि
प्रवृत्ता विष्णो ! श्रीहयवदन मिन्दुस्थित मये ॥ १०
 

 
हे विष्णो ! ते तव रुचि: पाताळे फणिपतिमिषा द्धाति । धरणौ
पयोम्भोधिव्याजा द्भाति । दिवि स्वर्गङ्गाव्याजा द्भाति । दयावाभूभ्यन्तराळे
आकाशे चन्द्रव्याजा द्भाति इत्येवं लोकत्रय 'मभिप्रवृत्ता अभिव्याप्य
स्थिता तव विष्णुत्त्वा त्त्वहचिरपि विष्णुत्त्वगुणवत्येवेति भावः । इन्दुस्थितं
श्रीयुक्तं हयवदन मये ॥
 
इयं ते वामा लसति कमला किं किमु तटि
ल्लता किं सौवर्णी हिमरुचिकला कि नवथ नवा
मरीचि स्सौरी किं किमु मुररिपो विद्रुमलताs
नया सन्दीप्तं त्वां हयवदन मिन्दुस्थित मये ॥ ११
 
bvInckumar@gmail.com.
 
Page 23 of 123