This page has not been fully proofread.

12
 
श्रीमद्धयवदनशतकम्
 
मिच्छन्ति अपिना विरोधो द्योत्यते । पण्डितानामपि त्वद्रुचिपूरे गङ्गाप्रवाह
भ्रान्ति र्भवतीति । वस्तुतस्तु पण्डितानां भगवत्कान्तिस्नानं युक्तमेव ।
निरन्तरध्यानविषयत्वा द्भगवत इति ज्योत्स्नाचरणपतगः: चकोराः चर गति
भक्षणयोरिति धातुः । तथाचाल चरणम् भक्षणम् चन्द्रिकां भक्षयन्ति
पत्रिणो ये ते इत्यक्षरार्थः । निर्मरो रस आनन्दः यस्मिन् तद्यथा तथा
त्वचिभरे पिपासन्ति त्वचिभरम् पातु मिच्छन्तीत्यर्थः । यद्व त्वचिभरे
यो निर्मरो रसः अमृतम् तं पिपासन्तीत्यन्वयः । अनेन चन्द्रिकासाम्यं
रुचिभरस्य व्यज्यते । इमे अहिपतिमुखा आदिशेषप्रमुखाः मुखपदेन
गरुड विष्वव सेनादीनाम् ग्रहणम् नित्यविभुधाः नित्यसूरयः नित्यसन्नि
हिता अपीत्यर्थः । त्वद्रुचिभरे तिष्ठासन्ति स्थातुमिच्छन्ति दुग्धाब्धिभ्रान्त्येति
भावः । वस्तुत स्तेषाम् त्वत्पुरस्स्थिति युक्तैवेति भावः । इमे इत्यनेन ब्रह्मादि
सेवितम् हयग्रीवम । हृदि परिकल्प्य ध्याता यम् ध्यायंतीति व्यज्यते ॥
 
28/04/12
 
इमां वस्तु वाञ्छ त्यमरवनिता लेपयितु म
प्यहो धर्तु पातुं प्रतिकृति मधाडलोकितु मिह
तथा स्नातुं स्थातुं मुखपरिमळेऽमूं कलयितुं
रुचि ते श्रीमन् त्वां हयवदन मिन्दुस्थत मये ॥ ९
 
हे श्रीमन् ते इमां रुचि ममरवनिताः वस्तु माच्छादयितुं
नितम्बे वस्त्रत्वेन धर्तुमित्यर्थः । वाञ्छन्ति तथा लेपयितु मङ्गे इति शेष:
बाञ्छन्ति चन्दनप्रान्त्येति भावः तथा धर्तुं वाञ्छन्ति मल्लीसुमभ्रान्त्येति
 
bvinckumar@gmail.com.
 
Page 22 of 123