This page has not been fully proofread.

9
 
श्रीमद्धयवदनशतकम्
 
मिति भावः । श्री लक्ष्मी रस्यास्तीति श्रीमान् तं लक्ष्मीसहित मिथ.
इन्दुस्थितं हयवदन मये इत्यर्थः ।
 
यदीयच्छायाभि र्धवळिततमेऽमुल भुवने
क्वचि दुग्धाम्भोधिः क्वचिदपि हिमाद्रिः क्वच वृषः
क्वचि कैलासाद्रिः क्वचन सुरराड़वाहन महो
विलीन स्तं देवं हयवदन मिन्दुस्थित मये ॥ ५
एवं चतुर्भि स्वरूपं वर्णयित्वा अधुना का वर्णयति । यदीया भि
इछायाभि इश्वेतप्रभाभिः धवळिततमे अतिधवळिते अमुत्र परिदृश्यमा ने
भुवने क्वचित्दुग्धाम्भोधि विंलीनः स्थितः भुवनान्तराळेपि कुलापि विलीनस्सन्
वर्तते न तु दृश्यते इति भावः । सामान्यालङ्कार:- सामन्यं गुणसाम्येन यत्र वस्त्व
न्तरैकतेति तल्लक्षणात्। एव मन्यदूह्यम् । सुरराडवाहन मैरावतगजः अन भुवनस्य
विस्तृतत्वेन दुग्धाब्ध्यादीनां क्वचित्स्थिति र्यद्यप्युचिता तथापि विलीय स्थितिः
त्वच्छाया सङ्क्रमणं विना न युज्यते इति भावः । विलीय स्थित इत्यनेन
ते त्वदनछायया जिता स्सन्तः पलाय्य क्वापि गूढं वर्तन्ते इति व्यज्यते
तेन च हयग्रीवस्य दुग्धाब्ध्यादिसर्वाधिक श्वेतकान्तिमत्वं फलति ।
 
28/04/12
 

 
त्वदीयच्छायायां सुरनगरमीना श्च विलुठ
न्त्यजः पाझो बद्धाञ्जलि रपि च सर्या स्सहफणा:
मिळित्वेह द्वौ द्वौ सललित मिवोदेत्यपि सुधा
रमानाथ ! त्वां तं हयवदन मिन्दुस्थित मये ॥ ६
 
bvinckumar@gmail.com.
 
Page 19 of 123