We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.


 
८०
 
श्रीमद्धयवदनशतकम्
 
स्वत एव मूर्त मूर्तीमूतं श्वेतं श्वेतवर्णमिव तनुं शरीर मधिगतं
प्राप्त ममृतरसमिव अदेहो देह स्सम्पद्यमानीभूतं देहीभूतं यश इब परी
पाकेन परिणामेन देहाकारपरिणतिनेत्यर्थः । रमण मनोझं स्मितमिव
आबिर्गत माविर्भूतं परं शुद्धं सत्त्वमिव अधिगताकार ममलं हीरनामकं
मणिमिव भान्त मिन्दुस्थितं हयवदन मये ।
 
सचित्तं वा शुद्धस्फटिकमणिभृमीधरवरं
प्रतमश्रीही द्रव मिव घनीभृत ममलम्
सरूपं वानन्दं गुणनिकर माहो! तनुधरं
विभान्तं श्रीमन्तं हयवदन मिन्दुस्थित मये ॥ ४
 
सचितं सचेतनं शुद्धस्फटिकमणिभूमी धरवरमिव स्थित मित्युत्प्रेक्षा ।
स्फटिकमणिभूभृतोऽभावात् । अमलं धनीभूतं प्रतप्तश्री हीरमणिद्रवमिव
स्थितम् । मूषाया मारोप्य हीरमणी प्रतप्यनिर्म: तत्वद्रूपेण रूपितायां
प्रतिमायां शिल्पिना निषिक्तस्सन् घनीभूतस्स त्वमिव नः प्रतिभा
तीत्यर्थ: सरूपं सशरीर मानन्द मिब स्थितम् आनन्दकायँ स्मिते श्वेतत्वदर्शना
दानन्दोऽपि श्वेतएवेति कृत्वेय मुत्प्रेक्षा । वस्तुतस्तु आनन्दस्य ब्रह्मत्वेन
सशरीर ब्रह्मैव हयग्रीष इति नात्रोत्प्रेक्षाया अवसरः कियानपि । आहो
इत्याश्चर्ये । तनुघरं गुणनिकरमिव स्थितं गुणकार्यस्य यशस श्वेतत्वा गुणोपि
श्वेत एवेति बोध्यम् । एवंविशेषेण भान्तं चन्द्रादित्याग्नित्नयधुतिप्रदद्युतिमन्त
 
28/04/12
 
bvinckumar@gmail.com.
 
Page 18 of 123