This page has not been fully proofread.

5
 
श्रीहयवदनपरब्रह्मणे नमः
 
श्रीमद्धयवदनशतकम
 
लो ॥ स्वत इश्वेतं मन्दस्मितरुचिपरीवाहसुभगं
समुद्यड्डिण्डीरच्छविपरिवृतं केसरभरम्
स्रजाप्तं महीनां कटिविलसितक्षौमरुचिरं
ततश्री खण्डाम्बु हयवदन मिन्दुस्थित मये ॥ १
 
अये इत्युतमपुरुषैकवचनेन अह मित्याक्षिप्यते । अहं
हयवदन मये प्राप्नोमि । अये इत्यात्मनेपद निर्देशेन क्रियाफल स्यात्म
गामित्वं धोत्यते । क्वासौं हयवदन इत्यत आह इन्दु स्थित मिति- "वन्दे
पूरितचन्द्रमण्डलगत" मित्यादौ हयाननस्य इन्दुस्थितिः प्रतिपादिता ।
हयवदनं विशिनष्टि - स्वतश्श्वेत मित्यादिभिः । स्वतश्वेतं स्वभावत एव सितम्
सहज मस्य त्वेतवर्णत्व मित्यर्थः । स्वत इत्यनेन हयवदनस्य अनन्यसिद्धत्वं
व्यज्यते । मन्दस्मितस्य रुचिपरीबाह: कान्तिपूर: तेन सुभगं सुन्दरम्
स्वत श्वेतोऽपि मन्दस्मितसङ्गा दधिकश्वेत इति भावः । मन्दे त्यनेन हय
ग्रीवस्य धीरोदात्तत्वं व्यज्यते । मन्दस्मिते त्यनेन ध्येयस्य ध्यातृप्रीति
जनकत्वोन्मुखत्वं व्यज्यते । परीवाहे त्यनेन स्मितं मन्दमपि दीप्ति रविकेति
ब्यज्यते । सुभग मित्यनेन षड्गुणपरिपूर्ण इति व्यज्यते। सभ्य गुद्य नाविर्भवन्
 
Page 15 of 123
 
28/04/12
 
bvinckumar@gmail.com.