This page has not been fully proofread.

103
 
श्रीमद्धयवदनशतकम्
 
९९
 
भ्रष्टे नीरसे अस्मिन् ग्रन्थे कियन्तं रसं कल्पयित्वापि स्वीकु
विति प्रार्थना निष्कर्षः । वस्तुतस्तु मदन्तःकरणस्य अपरि
शुद्धत्वेन भवत्कटाक्षवशा दस्य शुद्धौ सत्यामेव मयैवं त्वं
कीर्तितः अन्यथा क्वाहं क्वत्वं इति भगवतः आश्रितरक्ष-
कत्वं व्यज्यते । सुधाप्लावित इत्यनेन नाहं ग्रहग्रस्तव दचेतनी
भूय प्रलपामि किन्तु आनन्दरसनिर्मग्नः त्वां स्तौमीति
व्यज्यते । अहं स्तौमी त्युक्तौ आत्मन स्तुतिकर्तृत्वायोगा
द्वचनव्याहतिरिति मत्वा आस्यभ्रष्ट मित्युक्तम् । तेन
च अन्तःकरणे निरतिशयानन्दरसमग्ने सति वासनावशा
द्वक्त्रात्सुति रुदभू दिति व्यज्यते । प्रलपितमित्यनेन प्रकृष्टं
लपितमिति व्युत्पत्त्या स्तुतिरिति व्यज्यते तथा च स्तुति-
शत मित्यर्थ: । स्तुतिरूप श्लोकशतमिति यावत् नचैतं
श्लोकं विहाय अन्येषां शतत्व नास्तीति शङ्कयम् । अस्यापि
तदन्तर्गतत्वात् केवलमिति प्रलपितशत विशेषणम् । त्व
त्सुतिरेवात्राभिधीयते न त्वन्या काचिद्वार्तेति भावः । नन्
बहुभि बहुधा स्तुतएवाहमिति किं त्वत्सुत्या चर्वितचर्वण
प्राययेत्यत इशबरीवृत्तान्त माह । शबरी चर्वितचर्वणमपि
यथा तव रुच्यं तथा पूर्वे बहुधोक्तानामपि तव गुणाना
मियं स्तुति स्तव रुच्यैवेति भावः । फलमित्यनेन सरसत्वं
व्यज्यते किञ्च शबर्या उच्छिष्टमित्यनेन शबरी यथा इदं
मधुरं भवति वा न वेति परीक्ष्य मधुरमेव फलं तव ददौ
तथाहमपि दुष्टान् श्लोकाननिर्माय मधुरानेव निर्माय तव
 
Page 113 of 123
 
28/04/12
 
bvinckumar@gmail.com.