हयवदनशतकम् /112
This page has not been fully proofread.
102
९८
श्रीमद्धयवदनशतकम्
केवल मविचारेणेति भावः । अय भजस्व स्वीकुर्विति यावत् ।
इदं प्रलपितशतं ते तुभ्यं शबर्या स्संबंधि उच्छिष्टं फल मिव
कियन्तं किञ्चि द्रस ममृत मानन्द मिति यावत् । प्रदत्तेवा
विदधात्येव तव भक्तप्रियत्वा दिति भावः । अनेन स्तुतिकर्तुः
कर्तृत्वाभिमानः निरस्तः भवत्कटाक्षादेव मयोक्तम्, नतु
स्वत इति; कृतमपीदं स्तुतिशतं नीरस मपभ्रष्टमेव, न तु
सरसं शास्त्रसिद्ध मिति कृते स्तुतिशतेभिमानश्च निरस्तम् ।
कृतेभिमानन्नाम मदीयं स्तुतिशतं सर्वोत्तम मित्यादिरूपं
बोध्यं । ग्रहग्रस्तव दहं विवशएव मदास्यात्तु किञ्चि परि-
भ्रष्ट मित्यनेन भवत्कटाक्षादपि नाह मकरवं किन्तु मदा-
स्यमेवेति सुतरां कर्तृत्वाभिमानो निरस्तः । भ्रष्ट मित्यनेन
आस्यमपि वच्मीति नावोचत् । किन्तु अतर्कितमेवेति
व्यज्यते । प्रलपिते त्यनेन उन्मत्तप्रलापतुल्यत्वं काव्यस्य
व्यज्यते । पितुः पुत्रोक्तिव त्तव मदुक्ति नरसा भ्रष्टापि
ग्राह्यैवेति द्योतयितुं त्वदीयेति । केवलमि त्यनेन नात्रार्थ
विचारः कर्तव्यः; निरर्थकत्वेनैव प्रलपिततुल्यत्वादिति फलि-
तम् । शबर्यास्यभ्रष्टं फलमिव मदास्यभ्रष्टमिदं काव्यं तव
रुच्यमेवेति वक्तुं शबरीवृत्तान्तकथनं एतेन शबरीव दहं
केवलं भक्तएव न तु ज्ञानीति व्यज्यते । उच्छिष्ट मित्यनेन
अवगत रसत्वं व्यज्यते तेन च नीरसमेव तत्फलमिति
फलति । एव मुच्छिष्टे अतएव नीरसे फलेपि श्रीरामावतारे
यथा त्वं कियन्तं रसं स्वीकृत्य संतुष्टः तथाधुनापि मदास्य
28/04/12
bvInckumar@gmail.com.
Page 112 of 123