This page has not been fully proofread.

101
 
१३)
 
श्रीमद्धयवदनशतकम्
 
९७
 
संभवादिति भावः । त्वत्पादाब्जनखचन्द्ररेखा शोभा म
चिचत्त माकृष्य त्वत्पादाब्जे स्थापयत्विति परमार्थः ।
 
प्रसन्नास्यं प्रज्ञाकुमुदमुकुळोद्भेदकरण ।
स्फुरद्धासज्योत्स्नामृतरस समाप्यायितजनम् ।
मणीतारापुष्पस्त्रगयुतशुभोरःपरिपतत् ।
द्विरेफप्रस्तारं हयवदन मिन्दुस्थितमये ॥
 
प्रसन्न मास्यं यस्य तं प्रज्ञाया एव कुमुदमुकुळस्य
उद्भेदकरणः विकासकर: स्फुरन् हासएव ज्योत्स्ना तस्या
अमृतरसेन समाप्यायितः जनः संसारदवदहन संतप्त स्वपाद -
मूलागत भक्तलोकः यस्य तं मणीनां ताराणां मुक्तानां
पुष्पाणां च स्रजा मयुतै शुभे उरसि परितः पतन् द्विरेफ
प्रस्तार : भृंगबृंद: कमलाकटाक्षबृंदात्मको वा देवतास्त्री
नयनात्मको वा यस्य तं इन्दुस्थितं हयवदन मह मये ।
 
28/04/12
 
भवल्लीलापांगतनवसुधालावविवश ।
त्वदीयास्यभ्रष्टं प्रलपितशतं केवलमय ।
शबर्या उच्छिष्ट फलमिव कियन्तं रस मिदं ।
प्रदत्ते वा ते त्वां हयवदन मिन्दुस्थितमये ॥ १००
अये अश्वानन ! भवतो लीलापांगेभ्य स्सकाशात् स्रुता
या नवा नूतना सुधा करुणारूपा इति भावः । तस्याः
आप्लाव: आप्लवनं सर्वतस्नान मिति यावत् तेन विवशस्य
त्वदीयस्य त्वद्भक्तस्य आस्यात् भ्रष्टं प्रलपितानां शतं
 
९९
 
bvinckumar@gmail.com.
 
Page 111 of 123