This page has not been fully proofread.

श्रीमद्धयवदनशतकम
 
९५
 
का गति चतुर्धवर्णस्ये त्यत आह - अयं वः व इत्यक्षरं वां युवयोः
बहिर्यानं हृदया द्वहि रपसृति र्माभूदिति । तथा अघतः बहिर्गतस्य अघस्य
भान्तर्य मन्तःप्रवेशो माभूदिति च वर्तते इति शेषः । कवाटव दिति
आवः । वशब्दो हि दन्तोष्ठस्थानिकत्वेन ऊर्ध्वदन्ताभरोष्ठयो स्सति वोच्चा
रणेन दृढसम्बन्धे कवाटे घटिते इव आन्तराणां बहि:, बहिस्स्थना मन्त
च प्रवेशोपरोधो भवतीति भावः । एतेन इलोकेन हयग्रीवनाम निरुक्तम ॥
 
भवत्तत्वं वेत्तं न भवति ममेश ! विनयनम
भवद्रूपं ध्यातुं न हि तव च नाभौ निवसतिः
गुणां स्ते प्रस्तोतुं न च मुखसहस्रं सकू दहं
भवन्नाम श्रूयां हयवदन मिन्दुस्थित मये ॥
 
९७
 
(
 
हयवदनस्तुतिं संक्षपयितुं स्वस्य तत्रानविकारं ताव दाह - हेईश !
भवत स्तत्त्व सच्चिदानन्दरूपं, वेत्तुं मम तृतीयं नयनं त्रिनयनं ज्ञानात्मकं
चक्षु रित्यर्थः नास्ति । अग्निरूपं चक्षु श्च नास्तीति गम्यते । तेन च
नाहं शिव इति प्रतीयते । मनु ब्रह्मज्ञानाभावे सगुणं मां ध्याये त्यत
आह - भवतो रूपं ध्यातुं तव नामौ नाभीपये मम निवसतिः स्थिति
र्नास्ति । त्वत्सन्निधौ यद्यहं वर्तेय तर्हि त्वां ध्यातुं शक्नुयां; नैत दस्ति ।
कथ मदृष्टचरस्य तव ध्यानं मम सम्पद्यते ? ध्यानं हि मानसिकं मनश्च
अनुभुतविषये एव प्रवर्तते ; नत्वननुभुते इति नाहं ब्रह्मेति च गम्यते ।
ननु ध्यानाशक्तौ मां स्तुही त्यत आह - श्रुतिप्रसिद्धान् त्वगुणान् प्रकर्षण
 
28/04/12
 
bvInckumar@gmail.com.
 
Page 109 of 123