This page has not been fully proofread.

98
 
श्रीमद्धयवदनशतकम्
 
( अज्ञामं नाम मायेति प्राकू पश्चित ) एतेन भगवन्नामजा पिनामपि
भगवत्सायुज्यं भवतीति प्रकटितम् । यद्यपि भगवन्मन्त्रजपा द्भगवत्सायुज्य
भक्तीति पूर्वश्लोक एवोक्तं, तथापि जपो मास्तु स्मरणादिनापि शिवादि
सायुज्यं स्या दिति वक्तु मयं इलोकः ॥
 
हेहयग्रीव ! हः हयग्रीवपदाद्यक्षरं खान्ता दखिलं पाप मपहरति
अपाकरोति, निस्सारयतीति यावत् । हशब्दोच्चारणमात्रेण सर्वपापक्षयो
भवतीति भावः । ह इत्यस्य अन्तर्षायुनिस्सारणपूर्वक मुच्चारणीयत्वेन
पाषनिस्सारकत्वोक्तिः । ननु, हेनैव पापक्षये तदितरवर्णत्रयस्यानर्थक्यं कि
 

 
मत आह यः य इत्यक्षरं, भवन्तं हृदि वीतपापे चित्त घने स्थापयति
यशब्दोच्चारणमात्रेण द्धदि हयग्रीवमूर्ति रात्रिभवतीति भावः । यकारोपर्य
कारस्य विष्णुवा चकवा दिय मुक्तिः । जननीं लक्ष्मीं तु इदं ग्रीपदं
धत्ते । ग्रीशब्दोच्चारणेन लक्ष्मी हृदि तिष्ठतीति भावः । एतेन मद्धृदि
सतोऽपि तव न प्रियाविरह इति भगवन्तं प्रति कवे व्यङ्ग्यम् । ग्री इति
गकारानन्तर रकारो परिस्थितस्य ईकार लक्ष्मीवाचकत्वा दिय मुक्ति रिति
चोध्यम् । नन्वेवं पापापाकरणे श्रीशस्य मम हृदि स्थितौ च वर्णलयेण कृते
 
28/04/12
 
हयग्रीव ! स्वान्ता दपहरति हः पाप मखिलम्
भवन्तं यो धत्ते हृदि तु जननीं ग्रीपद मिदम्
बहिर्यानं वां मा भवतु न तथान्तये मवत
स्वितीवा यं वस्त्वां हयवदन मिन्दुस्थित मये ॥ ९६
 
-
 
bvInckumar@gmail.com.
 
Page 108 of 123