This page has not been fully proofread.

९.
 
श्रीमद्भयचंदनशतकम्
 
एब मायेशत्वादेव, तवेशत्वम् । किञ्च अस्मानपि स्वद्धजने ताव त्प्रेरथ
नारायणत्वात्; अन्तर्यामित्वादित्यर्थः । त्वमस्मत्त्प्रेरणे क्षमसे एवेति भावः ॥
 
बय
 
28/04/12
 
हयास्य ! श्रीश! त्वं हृदयकमलं मेऽधिनिवसा
निशं भोगं नैति क्कनु कमलया लालितपदः
त्वदीक्षातो मद्धन्मयसुरगवी ते बरबलिं
विदध्या त्सर्वज्ञं हयवदन मिन्दुस्थित मये ॥ ९२
 
चरमफलभूत मात्मानन्दानुभवं देहीति पूर्व प्रार्थयित्वा अधुना
तद्धेतुभूतं भगवद्भजनं देहीति प्रार्थयति । भादौ भगबननस्य मनसि भग
बत् स्थितिर्हेतु रिति कृत्वा तस्य स्वमनः कमलनिवासं प्रार्थयते [ भगवति
मनःकमलगते सति हि पश्चा लद्धजनं शक्यते ] [ हे हयास्य ! हे श्रीश !
त्वं मे मम, हृदयकमल मनिश मंधिवस । अधिशीङस्था मिति कर्मत्व
माघारस्य सम्बुद्धिद्वयेन लक्ष्मी युक्तस्सन् हयग्रीवावतारो भवा नविवस मद्धदय
मिति प्रार्थना गम्यते । ननु महाभोगप्रदं बैकुण्ठं विहाय कथं शून्ये त्वाम
नति बतैयाह मत आह -कमलया लालितपदः भवान् क्वनु भोगं नैति ? सीता
साहित्येन हेतुना श्रीरामस्य पञ्चबटीव कमलासाहित्यात् तबापि मद्धृदयं भोग
प्रदमेवेति मावः । अत्रार्थान्तरन्यासालङ्कारः प्रतीयते । कमलया सम्पद्रूपया
लक्ष्म्या लालितपदः महाराजः क भोगं नाप्नोति ? सर्वत्रा प्याप्नोत्येवा उक्तञ्च
श्री हर्षेण 'क भोग माप्नोति न भाग्यभाग्जनः' इति । एतदलङ्कारव्यञ्ज नायैवा
क भोग नैषीति मध्यमपुरुषो न प्रयुक्त इति बोकमलाया
पद यो ललितत्वकबनेन पदारविन्दयो महाभोग्यत्वं दौर्लभ्यश्च द्योत्यते ।
 
bvInckumar@gmail.com.
 
Page 104 of 123