This page has not been fully proofread.

बा
 
श्रीमद्धयवदनशतकम्
 
वासनं जीवसंज्ञं तन्मनः स्ववागिन्द्रियेण वदती त्यविरोध: । ननु यतो वाचो
निवर्तन्ते अप्राप्य मनस। सह' इति श्रुत्या मनोवागगोचर आत्मा कथं
मनसाऽनुभूतः कथं वा चाचा उच्येतेत्यत अह- शुद्धं साधनचतुष्टय
सम्पन्न संस्कृतम्मनः शुद्ध मित्यावर्तते शुद्धं ब्रह्म पश्य दनुभव त्सत् तस्य
ब्रह्मणो विमलत्वादीनां गुणानां समूहं ( समूहे कः ) खसम्बन्धिन्या वाचा
इन्द्रियेण वदति । अयं भावः मनसै वानुद्रष्टव्य इति श्रुत्यन्तरसामरस्यात्
संस्कृतमनसा आत्माऽनुभूयत एव अनुभवसिद्ध मेवेदं समाशाधिलिनाम् ।
वाचस्तु साक्षातं न श्रूयुः; किन्तु तात्पर्यवृत्त्या शृयु रेवेति न दोष इति ॥
 
28/04/12
 
न वक्ता न श्रोता नतु वचन माहो परशिवे
न वेत्ता नो वेद्यं न हि भवति वेद: करणभू:
शिवं शान्तं शुद्धं बृह दचल मेकं परमहो
गभीरं वात्मानं हयवदन दुखित मये ॥ ९०
 
पर शिवे परमसुखस्वरूपे आत्मनि, वक्ता नारित वक्त रभावा
देवता नारित । उभयो रभावा द्वचन्मपि नास्ति तथा वेत्ता ज्ञाता
नारित वेद्यमपि न हि भवति नास्तीत्यर्थः । वेचु रभावे वेद्याभावस्य
स्वरि द्धत्वा दिति भावः । उभयो रमावे वेदो ज्ञानमपि नास्ति । विद
ज्ञाने इति धातोर्चुञि रूपम् ; ल्युटि तु वेदन मिति भवति । ननु आत्मनो
ज्ञानस्वरूपत्वेन कथं ज्ञान स्याभाव इत्यतो वेदं विशिनष्टि करणभूरिति
वृत्तिजन्यं ज्ञानं ना मीत्यर्थ: । शिवं सुरूरवरूपं, कुतः शान्तं । दिक्षे
 
فات
 
bvInckumar@gmail.com.
 
Page 101 of 123