This page has not been fully proofread.

qo
 
श्रीमद्वयवदनशतकम्
 
अह मेतादृश इत्युक्ति रसङ्गच्छते ? अह मिति वक्तु जिह्वादे रनात्मत्वात् ;
साक्षिणः केवलस्य वक्तृत्वायोगात् । एवं ब्रह्मापि कथं स्तुत्यं ? तस्य, वागा
द्यविषयत्त्वात् । किञ्च अहं ब्रह्मेति कथं स्तोतु ब्रह्मत्वं जिह्वादीनामेव
स्तोतृत्त्वात् ? इति शङ्कोत्तरतया श्लोक माह ॥
 
28/04/12
 
कृशोऽहं स्थूलोऽहं वदति तनुतादात्म्य मिति यन्
तथाऽऽत्माऽहं जीव स्त्विति हि परतादात्म्यवशतः
मनश्शुद्ध पश्य द्वदति विमलत्वादिगुणकं
स्ववाचा तस्य त्वां हयवदन मिन्दुस्थित मये ॥ ८९
 
जीवः अन्तःकरणं, षोडशकलं लिङ्गमिति यावत । 'लिङ्ग त
ज्जीवसंज्ञित ' मिति पञ्चदश्यां लिङ्गस्य जीवसंज्ञ। प्रोक्ता । तनुतादात्म्य
महमेव शरीर मिति शरीरतादात्म्यं यत् गच्छन्, अहं कृशः अहँ स्थूलः
इति यथा बदति; न हि लिङ्गस्य स्थौल्यं कार्यं वा तयो देहधर्मत्वात् ; न
हि केवलो देहो वक्तुं क्षमते जडत्वात् ; अत: जीवो यदा शरीरे अह
मित्य भिमानं भजते तदा शरीरतादात्म्य मापद्य अहं स्थूल इति वदति
सर्वसम्प्रतिपन्नम् । एवमेव विप्रतिपन्न मप्यूह्य मि त्याह- तथा जीवः परेण
आत्मना, तादात्म्यवशतः आत्मतादात्म्यं प्राप्येति यावत्, अह मात्मेति
वदति । हि आत्म न्यहमभिमानेन आत्मतादात्म्य मापद्य अह मात्मेति
वक्ति जीव एवेति भावः । नन्वेवं जीवस्या त्माभिमश्ना दह मात्मेति
मानसिकी प्रवृत्ति रस्तुनाम कथं वाचोक्ते रिति चे सत्यम स्वात्मानुभव
 
bvinckumar@gmail.com.
 
Page 100 of 123